संस्कृतभारत्याः सङ्घटनस्य देहलीप्रान्तेन कृतं कार्यकर्तृसम्मेलनस्य समायोजनम्
• सङ्घटनस्य कार्यवर्धनार्थम् अहर्निशं चिन्तयन्ति कार्यकर्तारः। • मातृभूमेः परमवैभवसंस्थापनं कार्यकर्तृणां लक्ष्यम् ।
संस्कृतभारतीसङ्घटनस्य देहलीप्रान्तद्वारा समायोजिते कार्यकर्तृसम्मेलने शतशः कार्यकर्तारः समागतवन्तः। महाशय-चुन्नीलाल-सरस्वती-विद्यालये हरिनगरे जायमाने सम्मेलने कार्यकर्तृणां समुत्साहेन सर्वत्र उत्सवस्य वातावरणम्। सर्वप्रथमं विद्यालयस्य प्राचार्यायाः रेणुशर्ममहोदयायाः मुख्यातिथित्वे वस्तु-विज्ञान-पुस्तकप्रदर्शिन्यः समुद्घटिताः। तत्रैव प्रदर्शिनीनाम् उद्घाटने अखिलभारतमहामन्त्री श्रीमान् सत्यनारायणमहोदयः उपस्थितः आसीत् । रेणुशर्ममहोदयया उक्तं यत् संस्कृतस्य कार्यम् इतोऽपि वर्धितं स्यादिति प्रयासः करणीयः।

कार्यकर्तृसम्मेलनस्य समुद्घाटनकार्यक्रमे मुख्यातिथित्वेन स्वर्णव्यवसायी श्रीमान् शशाङ्कगुप्तमहोदयः समुपस्थितः। महोदयेन सम्भाषणशिक्षणस्य इच्छा प्रकटीकृता। प्रान्ताध्यक्षः श्रीमान् वागीशभट्टः सङ्घटनस्य कार्यवर्धनार्थम् अहर्निशं कार्यकरणं कार्यकर्तृलक्षणम् इति उद्बोधितवान् । न्यासाध्यक्षमहोदयः श्रीमान् प्रवीणकान्तः उक्तवान् संस्कृतं पूर्णविश्वम् एकस्मिन् सूत्रे स्थापयति तेनैव च संस्कृतेः संरक्षणम् अपि करोति। श्रीमता सत्यनारायणमहोदयेन संस्कृतस्य प्रचार-प्रसार-संवर्धन-विकासानां कृते उक्तम्। भारतनिधेः ज्ञानपरम्परायाः संरक्षणं मातृभूमेः परमवैभवसंस्थापनम् इति अस्माकम् उद्देश्यानि। कार्यकर्तृणां त्यागेनैव कार्यसंवर्धनम् इति महोदयस्य कथनम्।

समुद्घाटनकार्यक्रमस्य समारोपे प्रोफेसर रामराज-उपाध्यायेन समागतानाम् अतिथीनां धन्यवादज्ञापनं कृतम्।
तत्पश्चात् देहलीप्रान्ते संस्कृतभारत्याः समारम्भाद् आरभ्य कथं किं किं जातम् इति श्रीमता विजयेन इतिवृत्तं प्रस्तुतं। प्रथमे दिने सङ्घटनस्य कार्यवर्धनार्थम् सर्वेऽपि कार्यकर्तारः दृढसङ्कल्पिताः अभवन् इति ।








