हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य पञ्चदशस्थापना-दिवसस्य भव्यायोजने नरेन्द्रपाण्डेयवर्यस्य पुस्तकानां लोकार्पणम्

हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य पञ्चदशस्थापना-दिवसस्य उपलक्ष्ये एकः भव्यः विशिष्टः च कार्यक्रमः आयोजितोभवत्। अस्मिन् अवसरे माननीयराज्यपालवर्येण श्रीशिवप्रतापशुक्लमहोदयेन स्वकरकमलेन संस्कृतवाङ्मयस्य विविधाः नवीनाः कृतयः लोकार्पिता:।
लोकार्पितकृतिषु श्रीनरेन्द्रपाण्डेयवर्येण लिखितग्रन्थानाम् विशेषाकर्षणं अभवत्। अस्मिन् अवसरे विमोचितग्रन्थेषु प्रमुखतया “मम आधुनिकं संस्कृतवाङ्मयम्,” “श्रीमद्भगवद्गीतायां प्रबन्धनम्,” “सुभाषितरत्नकोशः,” “पुराणेषु भौगोलिकसन्दर्भः,” “पुराणेषु ऐतिहासिकता,” “पौराणिकज्ञानपरम्परा,” तथा “व्यावहारिकं संस्कृतम्” इत्यादयः सम्मिलिताः अभवन्।
अस्मिन् गरिमायुक्ते कार्यक्रमे माननीयः राज्यपालः स्वोद्बोधनं कृत्वा संस्कृतभाषायाः वैशिष्ट्यं तथा तस्याः प्राचीनत्वं, वैज्ञानिकतां, च आधुनिकोपयोगिताम् अङ्कितवान्। सः उक्तवान् यत् संस्कृतं केवलं धार्मिकं न, अपि तु जीवनस्य सर्वेषु पक्षेषु उपयोगी भाषा अस्ति।
पद्मश्री प्रो. हरमोहिंदरसिंहबेदी (कुलाधिपतिः, हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयः, धर्मशाला) संस्कृतवाङ्मयस्य प्रोत्साहनं कृत्वा उक्तवान् यत् संस्कृतं भारतीयसंस्कृतिं परम्परां च विश्वे विस्तारयितुं समर्थम् अस्ति।
विश्वविद्यालयस्य कुलपतिः प्रो. सतप्रकाशबंसलः स्वस्य उद्गारान् प्रकटयन् ग्रन्थानां उपयोगिताम् अङ्कितवान्। तेन उक्तं यत् एते ग्रन्थाः केवलं शोधकर्तृभ्यः न, अपितु सामान्यपाठकैः अपि पठनीयाः च उपयोगिनः च भविष्यन्ति।
अस्मिन् कार्यक्रमे विद्वांसः, शोधार्थिनः, संस्कृतप्रेमिणः च अनेके उपस्थिताः आसन् । आयोजनेनानेन संस्कृतभाषायाः संवर्धनं संरक्षणं च करणीयमिति जनमानसे जागरूकतां समुत्पादितं।
निष्कर्षतः, हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य पञ्चदशस्थापना-दिवसस्य आयोजनमिदं संस्कृतभाषायाः च भारतीयसंस्कृतिपरम्परायाः च संवर्धनाय एकः प्रशंसनीयः प्रयासः अभवत्।