संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

योगक्षेत्रे सन्तोषीरावतस्य च सार्थककण्डवालस्य वर्चस्वं

द्वयोरेव राज्यस्तरीयप्रतिभागे पंजाबप्रान्ते कृत: प्रतिभाग:

।कोटद्वारं। योग: कर्मसु कौशलं सार्थकं कुर्वन्त: योगशिक्षकस्य राकेशकण्डवालस्य काण्डाखालस्य छात्रा: स्वविद्यालयस्य च जनपदस्य च सहैव उत्तराखण्डस्य मानं वर्धयन्ति। साम्प्रतिके काले जालन्धरपंजाबप्रान्ते 18 दिसम्बरत: 20 दिसम्बरपर्यन्तं कनिष्ठवरिष्ठवर्गयो: बालकबालिकयो: राष्ट्रीययोगासनप्रतियोगिताया: आयोजनं सञ्जातं । यत्र रा.इ.का.काण्डाखालस्य बालिका संतोषी रावत: एवं च शिक्षकस्य पुत्र: सार्थककण्डवाल: उत्तमं प्रदर्शऩं कृतवन्तौ। द्वावेव उत्तराखण्डस्य गौरवं विद्येते । उत्तराखण्डतः राष्ट्रिययोगासनप्रतियोगितायां ३४ योगिन: भागं गृहीतवन्त: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button