संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

श्रीमद्भगवद्गीतायां जीवनस्य सर्वासां समस्यानां समाधानं विद्यते- डॉ0 नरेन्द्रकुमारपाण्डेयवर्यः

प्रेषकः-शशिकान्तः(उत्तरप्रदेशः) श्रीमद्भागवतगीताजयन्ती इत्यस्य अवसरे उत्तरप्रदेशसंस्कृतसंस्थानेन संस्कृतभाषाप्रशिक्षण कक्षाणाम् अन्तर्गतं मासिकं बौद्धिकसत्रस्य आयोजनं कृतम्। अस्य बौद्धिकसत्रस्य उद्घाटनमुख्यवक्तृरूपेण हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य प्रवक्ता डॉ. नरेन्द्रकुमारपाण्डेयाः उपस्थिताः आसन्। श्रीमद्भगवद्गीतायाः विषये उपस्थितान् छात्रान् सम्बोधितवान्। कार्यक्रमस्य आरम्भः संजीवनी महोदयाया: शङ्खध्वनिनाभवत् । डॉ भारती सरस्वतीवन्दनमकरोत्। पंकजकुमारः गीतामातुः परिवेदनां प्रस्तुतवान्। भाषाप्रशिक्षकरूपेण उपस्थितेन नूतनविष्णुरेग्मीमहोदयेन अतिथिभ्यः कार्यक्रमस्य रूपरेखायाः परिचयः कृतः। उत्तरप्रदेशसंस्कृतसंस्थानस्य विविधाः योजनाः प्रवर्तयन्त्। संस्कृतसंस्थानं केवलं उत्तरप्रदेशे संस्कृतकक्षां चालयति वा सम्पूर्णे भारते संस्कृतप्रेमिणां कृते वा इति अपि कथितम् । एतदतिरिक्तं ज्योतिष-कक्षा, कम्प्यूटर-कक्ष-वास्तु-कक्षा इत्यादीनि संस्थानद्वारा संचालितानि भवन्ति । विनोदकुमारवत्सेन कार्यक्रमे गीतासारस्य केचन श्लोकाः पठिताः। अस्मिन् अवसरे सईशा, नारायणी च नामनी लघुबालिके श्रीमद्भागवतस्य १५ अध्यायस्य पाठं कृतवत्यौ। येन सर्वे श्रोतारः मुग्धाः अभवन्। मुख्यवक्तृरूपेण आगतः डॉ. पाण्डेयः सर्वेषां प्रशिक्षूणां कृते श्रीमद्भागवतगीतां स्वजीवने स्वीकर्तुं प्रेरितवान्। अयं कार्यक्रमः संस्थानस्य प्रशिक्षकः दीनदयालशुक्लः सफलतया सम्पादितः । कार्यक्रमे उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः श्री विनयश्रीवास्तवः, सर्वेक्षिका चन्द्रकला शाक्य, प्रशासनिकपदाधिकारी जगदानन्दझा, प्रशिक्षणप्रमुखः श्रीसुधीष्ठमिश्रः व समन्वयकः धीरजमैठाणी, राधाशर्मा, दिव्यरञ्जनादयः अपि उपस्थिताः आसन्। कार्यक्रमस्य समापने प्रशिक्षकशशिकान्तद्वारा धन्यवादज्ञापनं प्रशिक्षकाजयकुमारद्वारा शांतिमंत्रश्च कृतः। एताः कक्षाः संस्कृतप्रेमिणां कृते प्रतिमासं निःशुल्कं चाल्यन्ते । प्रमाणीकरणस्य परीक्षायाः च योजना अस्ति । कोऽपि जिज्ञासुः तस्मिन् प्रवेशं प्राप्तुं शक्नोति । अग्रिममासस्य जनवरीमासे पञ्जीकरणं अधुना एव आरब्धमस्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button