संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
मध्यप्रदेश

कमलानेहरूविद्यालये संस्कृतसप्ताहमहोत्सवस्य समापनं सफलतापूर्वकम् अभवत्

प्रेषक:- डॉ.कारुलालकलामोहनजमडा (जावरा) मध्यप्रदेश:। रतलामजनपदे जावरानगरे कमलानेहरूविद्यालये संस्कृतसप्ताहमहोत्सवस्य समापनं सफलतापूर्वकम् अभवत्।श्रावणीपूर्णिमायाः दिवसः अर्थात् रक्षाबंधनम् “विश्वसंस्कृतदिवस-” रूपेण प्रसिद्धः वर्तते । विद्यालयस्य संस्कृतविभाग: अवसरेस्मिन् संस्कृतसप्ताहम् आचारितवान् । मध्यप्रदेशस्य प्रांतमेवं शासकीयकमलानेहरूकन्या-उच्चतर- माध्यमिक-विद्यालय-जावरानगर-जिलारतलामद्वारा संस्कृतसप्ताहोपलक्ष्ये दिवसानुसारं विविधकार्यक्रमाणामायोजनं कृतवान। तेषु नाट्यम्, श्लोक: पाठम्, संस्कृतगीतम् , संस्कृतव्याख्यानम्,उद्घाटनमेवं च समापनकार्यक्रमः सम्मिलिता: सन्ति । संस्कृतसप्ताहस्य समापनकार्यक्रमः अद्य सभागृहे आयोजित: । दीपप्रज्ज्वलेन कार्यक्रमः आरम्भ: अभवत्।

क्रमेस्मिन् विद्यालयस्य छात्राः संस्कृतलघुनाटिकायाः मञ्चनं कृतवत्य: । कार्यक्रमे अपि श्लोकगायनप्रतियोगिता, श्लोकलेखनप्रतियोगिता च आयोजिता अभवत्। तेन सह संस्कृतचित्रं, चंद्रयानविषयसम्बद्धं विज्ञान-प्रदर्शनं च छात्राणां कृते प्रदर्शितम् । एतद्विषये प्रश्नोत्तरी अपि सम्पन्ना अभवत्। कार्यक्रमस्य मुख्यातिथि: प्राचार्यमहोदय: श्री राजारामशिन्दे:द्वारा विहिता । विद्यालयस्य प्राचार्य: राजारामशिन्दे: मुख्यातिथिरूपेण कार्यक्रमे उपस्थितः सन् संस्कृते एव अस्माकं मूलः इति उक्तवान् । वयं कदापि अस्माकं मूलतः विरक्ताः भवितुम् न शक्नुमः। संस्कृतविभागाध्यक्ष: श्रीमती चन्द्रकला यादव:अवदत्-” भारतस्य प्रतिष्ठायां संस्कृतस्य संस्कृतेः च अतिमहत्त्वम् वर्तते।” मुख्यवक्तृरूपेण प्राचार्य: एवं अन्यै: अथितिभिस्सह विद्यालयस्य सर्वे शिक्षका: शिक्षिका: च उपस्थिता: आसन् ।

कार्यक्रमस्य सञ्चालनं आंग्लभाषाया: शिक्षक- प्रशिक्षक: डॉ.कारुलालकलामोहनजमडा़, प्रास्ताविकं संस्कृतशिक्षिका श्रीमती टीना गुप्ता: च, धन्यवादज्ञापनं श्रीमती प्रेमलता मेहता कृतवन्तः। तदनन्तरं कार्यक्रमे सहभागिनां छात्राणां कृते प्रमाणपत्राणि वितरितानि अभवन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button