Uncategorized

“एपीजे-इंटरनेशनल” विद्यालयेस्मिन् मन्थनमिति अंतर्विद्यालयीया प्रतियोगिता समायोजिता

वार्ताहर:- युवराज: । नवदिल्ली। बुधवासरे हिन्दी-संस्कृतभाषयो: संवर्धन-संरक्षणार्थं जनमानसेषु मातृभाषाया: हिंदीभाषाया: च प्रचार-प्रसारार्थं ग्रेटरनोएडास्थिते “एपीजेइंटरनेशनलस्कूल” इत्यस्मिन् विद्यालये,
मन्थनाख्या अन्तर्विद्यालयीया प्रतियोगिता समनुष्ठिता ।
यस्यां प्रतियोगितायां नोएडा-ग्रेटरनोएडा- दिल्लीस्थानां विंशति-प्राय: विद्यालयानांद्वि-शत-मिता: छात्रा:
प्रतिभागं कृतवन्त: ।

कार्यक्रमस्य शुभारम्भं विद्यालयस्य प्रधानाचार्या डॉ. सरितापाण्डेमहोदया मुख्यातिथिना प्रसिद्धकवयित्र्या , लेखिकया च उमंगजौली सरीन इत्यनया, समवाप्तसाहित्याकादमीपुरस्कारेण विद्वद्भूषणेन डॉ. युवराजभट्टराईवर्येण च साकं दीपप्रज्वालनं कृत्वा कृतवन्तः । तदनु मङ्गलाचरणत्वेन विद्यालयस्य छात्राभि: संगीतमयी
सरस्वतीवन्दना समाचरिता । तदनु अतिथि देवो भव इति प्राचीनां भारतीयां परम्परां परिपालयन् कार्यक्रमे समागताय अतिथि-द्वयाय उत्तरीयवस्त्रप्रदानेन पादपप्रदानेन पुस्तकार्पणेन च अतिथिसपर्या सम्पादिता । अनेन साकमेव विद्यालये मन्थनाख्या अन्तर्विद्यालयीया: प्रतियोगिता: समारब्धा:। प्रतियोगिता प्रकल्पे नैका: स्पर्धा: समनुष्ठिता: आसन्। एता: प्रतियोगिता: तृतीयकक्षा-त: अष्टमीकक्षां यावत् अधीयानेभ्य: विद्यार्थिभ्य: आयोजिता: अभूवन् । एतासु प्रतियोगितासु स्पन्दनशीर्षकेण हास्यकवितावाचनस्य प्रतियोगितायां तृतीयाकक्षाया: छात्रा: रमणीयरीत्या कवितावाचनं प्रस्तुवन्त:। यत्र क्रमशः प्रथमस्थानं एपीजे इंटरनेशनल स्कूल इत्यस्य आयोजकविद्यालयस्य एव
छात्र: अर्शितमोहन: अध्यगच्छत्, द्वितीये स्थाने गौर इंटरनेशनल स्कूल इत्यस्य विद्यालयस्य छात्रा
नविका तिवारी अवर्तत। अथ च डी.पी.एस. नॉलेज पार्क इत्यस्य विद्यालयस्य छात्रा अनायशा तृतीयस्थानभाजनीभूता
। अस्माकं संस्कृति: अस्माकं रिक्थम् इति विषयाधारितायां प्रतियोगितायां चतुर्थकक्षाया: छात्रा: सहभागं विहितवन्त:। यत्र च प्रथमस्थाने फादर एग्नल स्कूल इत्यस्य विद्यालयस्य छात्रा
आरिया सचदेवा द्वितीयस्थाने एपीजे इंटरनेशनल स्कूल इत्यस्य विद्यालयस्य एव छात्र: अंश: तृतीये स्थाने च पेसिफिक वर्ल्ड स्कूल इत्यस्य विद्यालयस्य छात्रा मिहिका शेखर: अवर्तन्त। पञ्चमकक्षायै प्रकृतिकल्पनाधारिता “पंछी बोलते हैं” इति पक्षिण: वदन्ति सस्वरकवितावाचनप्रतियोगिता समनुष्ठिता आसीत्। यत्र खलु डी.पी.एस. नॉलेज पार्क इत्यस्य विद्यालयस्य छात्रा गौरिकासिंह: प्रथमं स्थानं प्राप्तवती। अस्यामपि स्पर्धायां द्वितीयं स्थानं च जे पी पब्लिक स्कूल इत्यस्य विद्यालयस्य एव छात्र: अधृत: जुनाकर: प्राप्नोत्। रामीश इंटरनेशनल स्कूल इत्यस्य विद्यालयस्य छात्रा वैष्णवी शर्मा तृतीयं स्थानम् अधिगतवती । षष्ठकक्षाया: कृते अनुष्ठितायां वीररसाश्रितायां वीरभोग्या वसुन्धरा इत्याख्यायां प्रतियोगितायां प्रथम-स्थानं अद्वितामित्तलेन द्वितीयं स्थानम् आर्यशदीपसिन्हामुना तृतीयं स्थानं
अथर्व वत्सेन च अधिगतम् । सप्तमकक्षाया: कृते भाषाकौशलसंवर्धनपरा आशुभाषणप्रतियोगिता प्रकल्पिता यत्र प्रथमस्थाने गौरिका सिंह: द्वितीयस्थाने दर्श: सक्सेना:, तृतीयस्थाने च कसक: तिवारी क्रमशः स्थानं प्राप्तवन्त:। अष्टमकक्षाया: कृते साहित्यस्य प्रसिद्ध-साहित्यकाराणां कवीनां च रचनासु आधारिता काव्यसंगोष्ठी प्रतियोगिता संकल्पिता। यत्र क्रमशः प्रथमस्थाने एकांक्ष: कंकानी द्वितीयस्थाने सान्वी त्रिपाठी तृतीये स्थाने च इज़ानरहमान: अवर्तन्त । अपरत्र च संस्कृतसप्ताहमुपलक्ष्य संस्कृतसंवर्धनसंरक्षणदृशा अपि प्रतियोगिताया: आयोजनं जातम्। अस्यां प्रतियोगितायां
कर्मणः गहनो गतिः इति विषयाधारित: संवाद:प्रत्येकमपि विद्यालयस्य द्वाभ्यां छात्राभ्यां श्रीमद्भगवद्गीतायां निहितविषयान् आश्रित्य श्रीकृष्णार्जुनयो: रूपेण संस्कृते
संवादं कृत्वा प्रस्तवनीयम् आसीत् । अस्यां स्पर्धायां
प्रथमस्थानम् एपीजेइंटरनेशनल स्कूल इत्यस्य विद्यालयस्य अष्टमकक्षाया: छात्राभ्यां ऐंजलकिमोठी, ईरा मिश्रा चेत्येताभ्यां प्राप्तम् द्वितीयं स्थानं दिल्ली पब्लिक स्कूल इत्यस्य विद्यालयस्य देविशी द्विवेदी प्रियांशीशर्मा चेत्युभाभ्याम् अधिगतम्। तृतीयं स्थानं प्रज्ञानस्कूल इत्यस्य विद्यालयस्य आर्जवदीक्षितेन तन्मयबंसलेन च प्राप्तम् । एतासु सर्वासु प्रतियोगितासु सर्वश्रेष्ठप्रदर्शनं कृत्वा सर्वाधिकान् अङ्कान् अधिगम्य दिल्ली पब्लिक स्कूल इत्यनेन विद्यालयेन ट्राफीति स्मृतिचिह्नं विजितम्।

प्रतियोगिताया: समापनावसरे निर्णायकमंडलेन विद्यार्थिनां
उच्चतमप्रदर्शनस्य श्लाघ्या कृता सहैव ते संस्कृतहिन्दीभाषयो: अध्ययानार्थं संवर्धनार्थं च अभिप्रेरिता: । कार्यक्रमस्य समापने एपीजे इंटरनेशनल स्कूल, ग्रेटर नोएडा इत्यस्य विद्यालयस्य प्रधानाचार्या महोदया डॉ. सरिता पांडे वर्या निजने विविधविद्यालयेभ्य: आगतान् प्रतिभागिन: प्रेरकवचोभिः
वर्धापितवती तेषाम् उज्ज्वल भविष्यार्थं च शुभकामना: अपि प्रदत्तवती ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button