संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादूनसंस्कृत भारती

देहरादूने संस्कृतभारतीद्वारा विभिन्नस्थानेषु संस्कृतदिवसाचरणे विभिन्नकार्यक्रमा: अभवन्

पंचायतीमन्दिरघोसीगलीदेहरादूने, उत्तराखण्ड- आयुर्वेदविश्वविद्यालये, राजकीयमहाविद्यालये सुद्धोवालायां,बैल्हमकन्याविद्यालये, श्रीदुर्गामंदिरशिवनगरकेदारपुरे, धर्मपुरे च अभवत् संस्कृतदिवसाचरणम्

🔵अथदेहरादूनवार्ता🔵 प्रेषक:-धीरजमैठाणी

💦यज्ञेन संस्कृतसप्ताहस्य शुभारम्भो जातः💦

पञ्चायतीमन्दिरम् – संस्कृतभारतीदेहरादूनेन पंचायतीमन्दिर- घोसीगलीदेहरादूने संस्कृतसप्ताहस्य शुभारंभः यज्ञेन कृतम्। गीताशिक्षणप्रमुखेन योगेशकुकरेतिना यज्ञकर्मणोऽस्य आचार्यत्वं निर्व्यूढम्। जनपदमन्त्रिणा चर्चितं यत् सम्भाषणशिबिरशिक्षणपद्धत्या लक्षशः जना: संस्कृतेन वक्तुं सक्षमाः अभवन्। कार्यक्रमे शिक्षणप्रमुखः डा. राजेशशर्मा, महिला प्रमुखा डा. अनुमेहा वैद्या, छात्रप्रमुखा शिवानी रमोला, दूनविश्वविद्यालयछात्रसंयोजिका स्वेता रावतः, लीजा, हर्रावाला छात्रसंयोजिका लक्ष्मी यादवः, मियांवाला वसतिसंयोजिका ऋतु: जदली, पूर्वविस्तारकः नितीशमैठाणी, डा. बीना पुरोहितः इत्येतैः सहिताः अनेके गणमान्य जनाः उपस्थिताः अभवन्

💦उत्तराखण्ड-आयुर्वेदविश्वविद्यालयस्य मुख्यपरिसरे आयुर्वेदसंकाये संस्कृतकार्यशाला सम्पन्ना💦

हर्रावाला- परिसरस्य निदेशकः डा. राधावल्लभसती दीपप्रज्ज्वलनेन अत्र शुभारम्भं कृतवान्। तेन भाषितं यत् संस्कृतभाषा भारतीयतायाः आधारशिला । एतन्माध्यमेन प्राचीनकालतः चिकित्साशास्त्रं प्रगतिम् अकरोत् । डा. प्रदीपसेमवाल: सहायकप्रवक्ता (संहितासिद्धांतसंस्कृत विभागत:) प्रास्ताविकभाषणे भारतस्य परिचयं संस्कृतं प्रत्यपाद्य विश्वपोषिकेति उक्तवान्। डा. राजीवकुरेले अवदत् यत् सामाजिकसामस्याय संस्कृतं विशिष्यते। डा. ऋषि: आर्यः संस्कृतोच्चारणेन मानसिके शारीरिके स्वास्थ्ये कथं लाभः भवतीति अभाषत। बी. एम एस प्रथमवर्षीयच्छात्रासु प्रेरणा, गीतिका मनचन्दा, दिव्या, कुमकुम:, अदितिराणा च गणेश: वन्दनां सरस्वतीवन्दनां च अकुर्वन्। लक्ष्मी यादवः दीक्षा बुडलाकोटी च संस्कृतेन भाषणम् अकुर्वाताम् । अवसरे सर्वेऽपि छात्राः तत्तद्विभागीय- शिक्षकाः च अवर्तन्त।

💦द्वितीयदिवसम् उपलक्ष्य राजकीयमहाविद्यालये सुद्धोवालायां संस्कृतिविभागे समायोजिता संस्कृताभिमुखीकरणकार्यशाला💦

सुद्धोवाला, प्रेमनगरम्- प्राचार्यः प्रो एम.पी नगवालः, महानगरमंत्री आचार्य: माधवपौडेलः च दीपप्रज्वलनेन संस्कृतकार्यक्रमस्य शुभारम्भम् अकुरुताम् । डॉ. राजेशशर्मा संस्कृतभाषायाः वैज्ञानिकतां सर्वस्य समक्षं प्रास्तौत् । माधवपौडेलः छात्र-छात्राभ्यः संस्कृतसंभाषणं शिक्षितवान्। श्वेतारावतेन संस्कृतगीतं छात्रैः -छात्राभिः च संस्कृतगीतानि, संस्कृतश्लोकाः, नृत्यं चेत्येतासु अनेकासु गतिविधिषु प्रतिभागः कृतः । अंते प्राचार्येण संस्कृतस्य उपयोगिताविषये वदता अग्रेऽपि भविष्यति काले एताभ्यो गतिविधिभ्यः अवसरः अस्मत्परतया दास्यते। कार्यक्रमसंयोजिका डॉ. नीतू बलूनी कार्यक्रमं समचालयत्। तत्र प्रो. डीएनतिवारी, प्रो. कुलदीपरावतः, डॉ. डी.एस. मेहरा, डॉ. गिरीशशेट्टी, डॉ. उषा नेगी, डॉ. मुक्तदंगलः, डॉ. मनोजबिष्टः, डॉ. हेमलता खाती, डॉ मंजू भंडारी, डॉ. प्रतिभा बलूनी डॉ. माधुरी कोहली, डॉ. राकेश नौटियालः, डॉ. सुनैना भट्टश्चादय: उपस्थिताः अभवन्।

💦आवासीये बैल्हमकन्याविद्यालये संस्कृतकार्यशाला समायोजिता 💦

द्रोणनगरी- तत्र तृतीयदिवसीये कार्यक्रमे विद्यालयमुख्या श्रीमती अनुराधा संस्कृतमाध्यमेन भावाभिव्यक्तकार्यक्रमे संस्कृतभारतीतः संमागतानां स्वागतं कृतवती । शिक्षिकासु संयोजिका श्रीमतीअर्चना भट्टः प्रास्ताविकं, महानगरमंत्री माधवपौडेलः छात्राभ्यः शिविरबिंदुं शिक्षणं संस्कृतं प्रति च अभिमुखीकरणं दूनविश्वविद्यालयस्य छात्राप्रमुखा श्वेता रावतः संख्या पाठं क्रियापदानाम् अभ्यासं च संपर्कप्रमुखः धीरजमैठाणी संस्कृतद्वारा भावाभिव्यक्तिमहत्वे प्रकाशं निक्षिप्य भाषा वैशिष्ट्यं च प्रत्यपादयन्। विभागप्रमुखा गौरी कपूरः धन्यवादज्ञापनं मंच संचालन आर्या शर्मा चाकरोत्‌। अवसरेऽस्मिन् श्रीमती ऋतुजोशी, संगीतशिक्षकः श्री रोशनलालः, व्यवस्थापकः श्री समंथा समेत्य सर्वाः छात्राः च उपस्थिताः आसन्।

💦कथाकथनश्लोकवाचनोपक्रमः संस्कृतसप्ताहस्य क्रमे समाचरितः💦

केदारपुरम् – समग्रद्रोणनगर्यां संस्कृतभाषां प्रचारयितुं प्रसारयितुं निरंतरं प्रयतमानं संस्कृतभारतीदेहरादूनं श्रीदुर्गामंदिरे, शिवनगरे, केदारपुरे दिवसविशेषम् आचरितवान्।
अस्मिन् कार्यक्रमे अतिथिरूपेण मंदिरन्याससमितेः सचिवः कल्याणसिंहरावतः संस्कृतेन संबद्धं स्वीयं व्यक्तिगतानुभवं प्रस्तूय कथितवान् यत् संस्कृताय दैनंदिनजीवने स्थानं कल्पनीयम् । जनपदमंत्री डॉ. प्रदीपसेमवालः संस्कृतभारती संगठनविषये विस्तृतं विवरणं संस्कृतसप्ताहवृत्तं च प्रकाशितवान्। डोईवालाखंडसंयोजकः डॉ.आनन्दजोशी गीतगानपूर्वकं शिक्षणं कृतवान् । माधवपौडेलः मंचसंचालनं सरस्वतीवंदनां, श्वेतारावतः, मिली , एकता मंत्रं रेवा धस्माना, हिमांशुश्च च अकुर्वन्।

💦श्रीगुरुरामरामलक्ष्मणसंस्कृतमहाविद्यालयस्य प्राचार्यः डॉ. रामभूषणबिजल्वाणः संस्कृतभारतीदेहरादूनजिल्लाध्यक्षः जातः💦

धर्मपुरम् – समग्रदेहरादूनजनपदे संस्कृतं प्रसारयितुं प्रसारयितुं समाचरितस्य संस्कृतसप्ताहस्य सम्पूर्तिसत्रं जनकल्याणन्यासे धर्मपुरे, देहरादूने सम्पन्नम् ।
तत्र अध्यक्षीये उद्बोधने डा रामभूषणबिजल्वाणः संस्कृतस्य व्यावहारिकं महत्वं बोधयन् संस्कृतमेव भविष्यमित्यवदत्।
मुख्यवक्ता शिवनाथ-संस्कृत- विद्यालयस्य पूर्वप्राचार्यः डा सूर्यमोहनभट्ट: संस्कृतभाषायाः वैज्ञानिकतां, सामाजिकसामरस्यं साङ्घटनिकं महत्वं च प्रकाशितवान् ।
विभागसंयोजकः नागेन्द्रव्यासः धन्यवादं ज्ञापयन् संस्कृतमहाविद्यालयस्य प्राचार्यपदम् अलङ्कुर्वतः , गोक्रान्तिमञ्चस्य राष्ट्रियप्रवक्तुः, विविधशास्त्रनिष्णातस्य विदुषः डॉ रामभूषणबिजल्वाणस्य देहरादूनजिल्लायाः अध्यक्षीयदायित्वहेतवे उद्घोषणाम् अकरोत् । बिजल्वाणवर्येण सहर्षं दायित्वनिमित्तं स्वीकारोक्ति: प्रदाय समस्तकार्यकर्तृभिः सह मेलितुम् आगामिसितम्बरमासे आयोजयिष्यमाणायाः त्रिदिवसीयायाः अखिलभारतीयस्तरीयगोष्ठ्याः प्राप्तदायित्वानुरूपं रणनीतिः विनिर्मातुं प्रौक्ता । भूतपूर्वः अध्यक्षः डॉ सूर्यमोहनभट्टः प्राचार्यः ( पूर्वप्राचार्यः , शिवनाथसंस्कृतविद्यालयः) तदीयदायित्वस्य समर्थनं कुर्वन् शुभाशंसनं विधाय प्रसन्नतां व्यक्तीकृतवान् ।
मञ्चस्थेषु अतिथिषु सामाजिकः उद्यमी वृजचौधरी, राम- राम एसोसिएटप्रतिष्ठानस्य अधिष्ठाता देवेन्द्रसिंहश्च कार्यक्रमस्य शोभाम् अवर्धताम्।
दीपप्रज्ज्वलनेन कार्यक्रमः आरब्धः। कुङ्कुम सरस्वतीवन्दनां जनपदमन्त्री डा प्रदीपसेमवालः अतिथीनां परिचयं, स्वागतं, प्रास्ताविके संस्कृतसप्ताहस्य इतिवृत्तकथनं च अकरोत्। सहविभागसंयोजकः डा नवीनजसोला स्वेन वैदुष्यपूर्णवक्तव्येन सर्वान् अभिमुखीकृतवान् । ध्येयमन्त्रं श्वेतारावतः, स्वागतेन नृत्यं सरिता, तनीशा सेजल च अकुर्वन् , साभिनयम् इष्टवन्दनम् आद्यापौडेलः अकुर्वन्, उत्तराखण्ड-आयुर्वेद-विश्वविद्यालयस्य मुख्यपरिसरस्य हर्रावालायाः प्रींसा , अदितिः, कोमल, इंशा, सागरः इत्यादिभिः बीएमएस प्रथमवर्षीयच्छात्रैः कुशलपूर्वकं संस्कृतनाटकं (प्रहसनं) प्रस्तुतम् ।
मञ्चसञ्चालनं महानगरमन्त्री माधवपौडेलः अकरोत्। अन्ते यथार्थजसोला रुद्राष्टकम् अश्रावयत् । अमुस्मिन्नवसरे विशेषतया डोईवाला खण्डसंयोजकः डॉ आनन्दजोशी, रायपुरखण्डसंयोजक: धीरजविष्टः, गीताशिक्षणप्रमुखः योगेशकुकरेती , सम्पर्कप्रमुखः धीरजमैठाणी इत्येतान् समेत्य कार्यकर्तृषु छात्रप्रमुखा शिवानीरमोला, सौरवखण्डूरी, लीजा, लक्ष्मीयादवः, पीयूषशर्मा, दुर्गाप्रसादविष्टः , डॉ बीनापुरोहितः , अभिषेकखण्डूरी इत्यादयोऽनेके सामाजिकाः संस्कृतानुरागिणः समुपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button