संस्कृतमेव भारतस्य सुसांस्कृतिकपरिचय:- “प्राचार्य: प्रो.डी.एस.नेगी”
विना संस्कृतसम्भाषणेन संस्कृतं न आयाति- डा.अरुणिमामिश्रा
कोटद्वार।डॉ. पीताम्बरदत्तबर्थवालराजकीयमहाविद्यालय- कोटद्वारस्य संस्कृतविभागेन , संस्कृतसप्ताहोपलक्ष्ये संस्कृतदिवसस्य आरम्भोभवत् । यस्मिन् विविधकार्यक्रमैः सह संस्कृतवार्तालापेन, गानेन, श्लोकोच्चारणेन, सम्भाषणपरिचयेन, संस्कृतदिवस: समाचरितोभवत्। महाविद्यालयस्य प्राचार्यः प्रो. डी.एस.नेगी, वरिष्ठः प्राध्यापकः एम. डी. कुशवाहा, डॉ. रोशनी असवाल:, डॉ. मनोरथप्रसादनौगाई एवं डॉ. प्रियम-अग्रवाल:, आगन्तुकमहानुभावेषु कुलदीपमैन्दोला, रमाकान्तकुकरेती मातृसरस्वत्या: समक्षे दीपं प्रज्ज्वाल्य कार्यक्रमम् आरब्धवन्त: ।
अस्मिन् कार्यक्रमे सरस्वतीवन्दनां, स्वागतगीतं च संस्कृतविभागस्य छात्रैः अग्रे नीतम्। पारम्परिक- औपचारिकतानुसारं विभागीयप्राध्यापका: नवप्राचार्यवर्यस्य डी.एस.नेगीवर्यस्य फलकेन, पुष्पगुच्छेन च स्वागतं कृतवन्तः। स्वागतानन्तरं वैदिकमन्त्रपाठेन सह शिवार्चन संस्कारः सञ्जात: । तदनन्तरं वैदिक-लौकिक-मन्त्रैः सह संस्कृतगीतानि, श्लोका: च छात्रैः प्रतुतीकृता: । तदनन्तरं शिवार्चनस्य माध्यमेन शिवस्य पूजा कृता यस्य कारणेन महाविद्यालयस्य सम्पूर्णं वातावरणं शिवरूपं जातम् ।
प्राचार्य: प्रो.डी.एस.नेगी कार्यक्रमं सम्बोधयन् उक्तवान् यत्
सर्वे भवन्तु सुखिनः सदृश: विचारश्च, “वसुधैव कुटुम्बकं” चेति संस्कृते एव प्राप्यते । तै: कालिदासस्य उदाहरणे यथा कविल्ठानामग्रामः, कण्नगरीकोटद्वारे कालिदासस्य अभिज्ञानशकुन्तले वर्णनमुद्धृत्य साहित्यशास्त्राणां वैज्ञानिकं तथ्यं भौगोलिकरूपेणापि प्रतिपादितम् । तै: प्रोक्तम् यत् योगविषय: अर्थशास्त्रं, वनस्पतिशास्त्रम्, रसायनशास्त्रम्, भौतिकशास्त्रम् दर्शनशास्त्रम् चिकित्साशास्त्रम् , वास्तुशास्त्रम् , गणितं, बहव: विषया: संस्कृते अद्यापि सन्ति ।
संस्कृतमेव भारतस्य सुसांस्कृतिकपरिचय: वर्तते।
वनस्पतिशास्त्रस्य वरिष्ठः प्राध्यापक: एम.डी.कुशवाहा स्वभाषणे शिवस्य वैभवस्य प्रशंसाम् अकरोत् तथा च संस्कृतविषयं सर्वोत्तमम् इति वर्णितवान् अपि च स्वरचितकाव्यद्वारा शिवस्य प्रशंसाम् अकरोत् यत् “सुशोभित् शिखर शशि वक्ररूपम्, चारू गंगा हुई शान्तधारी, प्रियं शिवम्। ” इति विवक्षितम्, “पुण्यपार्वती, अतुलनीया संसारप्रवर्तिका, अलंकृतशिखरा, शशि वक्ररूपम्, चारुगङ्गा, शान्तम्” इति ।
श्री रमाकान्तकुकरेति स्वसम्बोधने संस्कृतसप्ताहदिवसं केन्द्रीकृत्य उक्तवान् यत् संस्कृतभाषा अतीव सरला अस्ति, अतः अस्माभिः सर्वैः ग्राम-ग्रामे, नगरे-नगरे, गेहे-गेहे संस्कृतं प्रसारयितुं प्रतिबद्ध: भवितव्य: ।
संस्कृतस्य प्रचारप्रसारस्य च सम्भाषणस्य विषये
कुलदीपमैन्दोला स्वसम्बोधने छात्रान् संस्कृतभाषायां वार्तालापं कर्तुं प्रेरितवान्, कठिनात् सरलात् च गन्तुं प्रेरितवान्, स: अन्यभाषायाम् संस्कृतशब्दान् अवगतं कारितवान् । सः संस्कृतं दिव्यभाषा इति वदन् अग्रे नेतुम् प्रेरणाम् अयच्छत् । स: उक्तवान् यत् सम्भाषणकारणेन अद्य 26 देशेषु संस्कृतकार्यं प्रचलति च विश्वे कोटिश: जना: संस्कृतं वदन्ति । आभारते विद्यालया: महाविद्यालया: विश्वविद्यालया: संस्कृतभारत्या: कार्यकर्तार: संस्कृताचरणेन संस्कृतं प्रसारयन्त: सन्ति। अहम् अहर्निशं संस्कृतस्य सर्वत्र प्रसारणं करोमि।
विभागप्रभारी डा.अरुणिमामिश्रा उक्तवती यत् “त्यागो हि महताम् पूज्य: सद्य: मोक्ष: मया यत्” भारतीयसंस्कृतिः त्यागस्य तपस्याया: च संस्कृतिः अस्ति तथा च त्यागे परमवैभवस्य समृद्धेः भावः समाहितः अस्ति। तया उक्तं यत् विना संस्कृतसम्भाषणेन संस्कृतं न आयाति। अत: सर्वै: सम्भाषणस्य प्रयास: कर्तव्य: ।
डॉ. रोशनी अस्वालः स्ववक्तव्ये छात्रान् सम्बोधयन्ती अवदत् यत् वैदिककालात् श्रावणीपूर्णिमायां बालकानां उपनयनसंस्कारः कृतः, तेषां अध्ययनं आरभ्य गुरुकुलं प्रति प्रेषितम्। वर्तमानकाले अपि एषा परम्परा मठेषु गुरुकुलव्यवस्थासु च प्रचलिता अस्ति, सर्वेऽपि संस्कृतप्रेमिणः संस्कृतदिवसम् आचरन्ति अपि च चन्द्रयानस्य उदाहरणं दत्त्वा संस्कृतस्य विज्ञानस्य च समन्वयस्य विषये विस्तृतसूचनां दत्तवती।
डॉ. प्रियम-अग्रवालः स्वसम्बोधने शिवार्चनस्य महत्त्वं प्रकाशयन् अवदत् या सृष्टि: सृष्टुराद्या अष्टमूर्तिशिवद्वारा सम्पूर्णसृष्टेः परिचालकं सत्यं शिवम सुन्दरम् इति परिभाषितवती । अर्चनं वन्दनम् अस्माकं दैवीय संस्कार: अत: संस्कृतेन संस्कार: प्राप्यते।
एतत् क्रमं निरन्तरं कृत्वा प्रथमदिनस्य प्रथमसत्रे छात्राणां शिवार्चनस्य परिचयः सञ्जात:, द्वितीयसत्रे च छात्राणां श्लोकगायनस्य परिचयः अभवत् । कार्यक्रमस्य औपचारिकरूपेण संचालनं संस्कृतविभागस्य प्राध्यापकः डॉ. मनोरथप्रसादनौगैवर्येण कृतम्, शिवार्चनकार्यक्रमे पूजाप्रक्रिया अपि भवता सम्पादिता ।