संस्कृतभारतीविदर्भप्रांतेन संस्कृतसप्ताहोपलक्षे विविध-कार्यक्रमाणामायोजनं कृतं
श्रावणीपूर्णिमायाः दिवसः अर्थात् रक्षाबंधनम् “विश्वसंस्कृतदिवसः” इति रूपेण प्रसिद्धः । संस्कृतभारती आभारते अवसरेस्मिन् संस्कृतसप्ताहरूपेण आचारति । तदानुगुणमेव संस्कृतभारती विदर्भप्रांतमेवं नागपुरमहानगरद्वारा संस्कृतसप्ताहोपलक्षे दिवसानुसारं विविधकार्यक्रमाणामायोजनं कृतवती तेषु पथ-नाट्यम्, मेट्रोयाने रैली, संस्कृतदिवसः, संस्कृतव्याख्यानम्, उद्घाटनमेवं च समापनकार्यक्रमः सम्मिलिता: सन्ति । संस्कृतसप्ताहस्य समापनकार्यक्रमः अद्य संस्कृतभारती विदर्भप्रांतकार्यालये “दत्ता जी डिडोलकर स्मृति भवने” आयोजित: । कार्यक्रमस्याध्यक्षता महानगरोपाध्यक्षा अञ्जलीबेंद्रेमहोदयाद्वारा विहिता । मुख्यवक्तृरूपेण प्रांतोपाध्यक्षः श्री श्रीनिवासः वर्णेकरः एवं अन्या: अतिथयः प्रांतमंत्री श्री संभाजी पाटिलः, महानगरमंत्री श्रीमती केतकी डाड्गेसहितः अन्यः प्रांतीयः एवं महानगरकार्यकर्तारः तथा च संस्कृतचित्ता उपस्थिता: आसन् । क्रमेस्मिन् विद्यालयस्य छात्राः संस्कृतलघुनाटिकायाः मञ्चनं कृतवत्याः । कल्याणमंत्रेण कार्यक्रमः सम्पन्नः अभवत्। कार्यक्रमस्य सञ्चालनं डॉ. स्वाती लोडे , प्रास्ताविकं केतकी डाङ्गे , धन्यवादज्ञापनं श्री लोकेशः मेहता कृतवन्तः ।