संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डऋषिकेश

श्रीवेदमहाविद्यालये संस्कृतसप्ताहमहोत्सवः हर्षोल्लासेन आचरितः।

संस्कृतछात्रै: विविधसृजनात्मकप्रतियोगितासु स्वप्रतिभाया: प्रदर्शनं कृतं । ।।सूत्रान्ताक्षरीप्रतियोगितायां श्लोकप्रतियोगितायां पाणिनीसमूहस्य छात्राः, विवेकानन्दसमूहस्य छात्राः प्रथमः, अनुवादप्रतियोगितायां शुभमजोशी प्रथमः, अभिषेकजोशी द्वितीयः, वैभवपाठकः तृतीयश्च आसन्।।

ऋषिकेशः।श्रीवेदमहाविद्यालये संस्कृतसप्ताहमहोत्सवः महता हर्षोल्लासेन आयोजितोभवत् । अस्मिन् काले संस्कृतछात्राः विविधसृजनात्मकप्रतियोगितासु स्वप्रतिभां प्रदर्शयन्ति स्म ।सूत्रान्तक्षरीप्रतियोगितायां पाणिनिसमूहः विजयीभूतः, श्लोकप्रतियोगितायां विवेकानन्दसमूहः च विजयी अभवत् ।गुरुवासरे महाविद्यालये संजायमाने संस्कृतसप्ताहमहोत्सवस्य समापनसमये मुख्यातिथिः, विद्यालयप्रबन्धकः रविन्द्रकिशोरशास्त्री, विद्यालयस्य प्राचार्यः कृष्णप्रसाद: उनियालः च संयुक्तरूपेण दीपप्रज्ज्वालनेन कार्यक्रमम् आरब्धवन्त: ।

विविधसांस्कृतिककार्यक्रमेण आयोजनस्य समापनम् अभवत्। कार्यक्रमस्य संचालनं विद्यालयस्य आचार्यः सुनीलदत्तविजल्वाणः अवदत् यत् संस्कृतसप्ताहमहोत्सवस्य प्रथमदिने उत्तराखण्डसंस्कृताकादमीद्वारा नगरे संस्कृतशोभायात्रा कृता, यस्मिन् अवसरे विद्यालयस्य सर्वे छात्राः शिक्षकाः च उत्साहेन भागं गृहीतवन्तः। द्वितीयदिने संस्कृतस्य महत्त्वे छात्राणां अभिव्यक्तिः, संस्कृतभाषायां लेखलेखनं च, तृतीये दिने संस्कृतश्लोकः, संस्कृतवार्तालापः, चतुर्थे दिने रक्षाबन्धनस्य अवसरे संस्कृतदिवसस्य श्रावणीपरिकल्पना उपनयनसंस्कारः तथा सर्वेषां छात्राणां कृते ऋषिपूजा कृता। पञ्चमे दिने शिक्षकाः छात्रैः सह संस्कृतभाषायाः अध्ययनस्य आवश्यकतायाः विषये परिचर्चां कृतवन्तः।

षष्ठे दिने महाविद्यालये विविधाः स्पर्धाः आयोजिताः, येषु महाविद्यालयस्य छात्राः उत्साहेन भागं गृहीतवन्तः । सूत्रान्ताक्षरीप्रतियोगितायां श्लोकप्रतियोगितायां पाणिनीसमूहस्य छात्राः, विवेकानन्दसमूहस्य छात्राः प्रथमः, अनुवादप्रतियोगितायां शुभमजोशी प्रथमः, अभिषेकजोशी द्वितीयः, वैभवपाठकः तृतीयश्च आसन् । प्रतियोगितायां भागं ग्रहणं कुर्वतां छात्राणां पुरस्कारं प्रदत्तम्। कार्यक्रमे डॉ.अजीतप्रकाशनवानी, आचार्य: विपिन: उनियाल:, आचार्य: दीपकराजकोठारी, शिक्षिका संगीताजेठुडी, चन्द्रप्रकाश: आदयश्च उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button