संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाबसंस्कृत भारती

मुलतानीमालमोदी-महाविद्यालये पटियालानगरे दशदिवसीयं संस्कृतसम्भाषणशिबिरं समारब्धम्।

पटियाला।संस्कृतस्य प्रचाराय प्रसाराय सततं प्रयतमाना संस्कृतभारती संस्कृतसम्भाषणेन प्रतिजनं सम्भाषणशीलं करोति । सहैव केन्द्रीयसंस्कृतविश्वविद्यालयनवदेहलीद्वारा
अपि प्रशिक्षितशिक्षकमाध्यमेन संस्कृतशिक्षणं सञ्चाल्यते । क्रमेस्मिन्नेव संस्कृतशिक्षणसञ्चालक: विनयसिंहराजपूत: संस्कृतसम्भाषणशिबिरं सञ्चालयति।

संस्कृतभारतीपञ्जाबप्रान्तस्य केंद्रीयसंस्कृतविश्वविद्यालयदेहली इत्यनयोः सहकारेण पटियालानगरे विनयसिंहराजपूतस्य शिक्षकत्वे मुलतानी-माल-मोदीमहाविद्यालये ३० नवम्बरतः १० दिवसीयं संस्कृतसंभाषणशिबिरं आरब्धम्। यस्योद्घाटने कार्यक्रमस्य अध्यक्ष: महाविद्यालयस्य प्राचार्यः खुशविंदरसिंह: सर्वान् जीवने संस्कृतेन आचरणीयम् इति प्रेरितवान् ।

शिबिरसंयोजकः हिन्दीविभागस्य प्रो. रुपिंदरशर्मा प्रोक्तवान् यत् संस्कृतमेव तादृशं विज्ञानं यत् ब्रह्माण्डस्य परिचयं कारयति। अत्र महाविद्यालयस्य विभिन्नविभागेभ्यः छात्राः कक्षायां भागं गृहीतवन्तः। कक्षायां शिक्षकशिक्षिका: अपि भागं गृहीतवन्तः। एतदतिरिक्तं केन्द्रीयसंस्कृतविश्वविद्यालयस्य अनौपचारिकसंस्कृतशिक्षणकेन्द्रस्य पाठ्यक्रमस्य कक्षाः महाविद्यालये सञ्चालिताः भविष्यन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button