संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डऋषिकेश

राज्यस्तरीययोगासन-प्रतियोगितासु संतोषीरावतछात्राया: राष्ट्रिययोगासन-प्रतियोगिताया: कृते चयनं

ऋषिकेश। उत्तराखंडयोगासनखेलसंघद्वारा ऋषिकेशे आयोजितासु राज्यस्तरीययोगासनप्रतियोगितासु रा.इ.का.काण्डाखालस्य पर्वतीयप्रतिभा संतोषी रावत: योगासने प्रथमस्थानं प्राप्तवती राष्ट्रिययोगासनप्रतियोगितायाः कृते संतोषीछात्राया: चयनस्य पुष्टिः अभवत् । एतस्मात् पूर्वमपि संतोषी राकेशकण्डवालस्य निर्देशने राष्ट्रियप्रतियोगितासु भागं गृहीतवती आसीत् । छात्राया: एतस्याः प्रतिभायाः कारणात् पित्रो: विद्यालये च सुखस्य वातावरणं वर्तते। व्यायामशिक्षकः संस्कृतशिक्षकः च राकेशकडवालः स्वयमेव प्रतिदिनं ऑनलाइन-अफलाइन-योग-कार्यक्रमं चालयति, यस्य कारणात् छात्राः अपि च सामान्यजनाः तस्मात् प्रेरिताः भवन्ति एव |

ऋषिकेशे उत्तराखंडयोगासनखेलसंघस्य आयोजितेषु योगासनेषु विशेषम् आकर्षणम् आसीत् यत् पितृपुत्रयोः द्वयोः चयनं राष्ट्रियस्तरस्य कृते अभवत् । अस्यां स्पर्धायां योगशिक्षक: राकेशकण्डवालः अपि राज्यस्तरस्य स्थानं प्राप्तवान् तथा च तस्य पुत्रः सार्थककाण्डवालः अपि राज्यस्तरस्य स्थानं प्राप्तवान् । उभौ स्वस्ववर्गेषु पदके प्राप्तवन्तौ, राष्ट्रियस्तरस्य चयनं च सुनिश्चितवन्तौ । राज्यस्तरीययोगासनप्रतियोगिताया: उद्घाटनं हरिद्वारविधायक: श्री रमेशपोखरियालनिशंक: कृतवान्। योगस्य महत्त्वं योगासनक्रीडायाः महत्त्वं च श्री निशंकद्वारा क्रीडकेभ्यः विशेषं वक्तव्यं दत्तम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button