संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

वर्षस्य श्रेष्ठछात्रेषु योगोपलब्धिषु च सन्तोषीरावत: सार्थककण्डवाल: उत्तराखण्डगौरवरत्न-पुरस्कार2022द्वारा सम्मानितौ

योगनिर्देशकेन राकेशकण्डवालेन वर्धापनानि प्रदत्तानि

।कोटद्वारं।”डिस्कवर न्यूज 24 उत्तराखण्ड” इत्यनेन कोटद्वारे उत्तराखण्डस्य महाप्रतिभाशालिन: सम्मानेन सभाजिता: । प्रतिभाशालिनां जनानां कृते विभिन्नक्षेत्रेषु विलक्षणयोगदानस्य कृते ‘उत्तराखण्डगौरवरत्नपुरस्कारं 2022 इत्यनेन विभिन्न उपलब्धय: सम्मानिता: अभवन्। मुख्यातिथि: ऋतुभूषणखण्डूरी सभापति: विधानसभा उत्तराखण्डं, विशेष विशिष्टातिथि: ओमप्रकाशसिंहराणा रियरएडमिरलएवीएसएम, (से.नि.) “डिस्कवर न्यूज 24 उत्तराखण्ड” इत्यस्य प्रसारवाहिन्या: मुख्यसम्पादक: अम्बेशपन्त: एतै: सर्वै: उत्तराखण्डगौरवरत्नसम्मानं 2022 द्वारा विभिन्नजना: सम्मानेन पुरस्कृत: । योगव्यायामयो: च संस्कृतशिक्षकस्य राकेशकण्डवालस्य निर्देशने योगक्षेत्रे
राष्ट्रीययोगप्रतियोगितायां स्थानं प्राप्तकर्त्री रा.इ.का.काण्डाखालस्य छात्रा संतोषी रावतः विलक्षणयोगदानार्थं एवं च तस्यैव पुत्र: सार्थककण्डवाल:अपि राष्ट्रियोपलब्धिषु विलक्षणयोगदानार्थं उत्तराखण्डगौरवरत्नसम्मानं 2022 द्वारा सम्मानितौ अभवताम्।संतोषी रावत: राजकीयवरिष्ठमाध्यमिकविद्यालयकौडियापौडी- गढ़वालत: राष्ट्रीयस्तरे योगसहभागितया सहैव शैक्षणिकगतिविधिषु अपि वर्षस्य श्रेष्ठछात्रा सम्माने गौरवसम्मानं प्राप्तवती । तदतिरिक्तं सार्थककण्डवाल: कान्वेण्ट्स्कूलकोटद्वारत: शैक्षणिकगतिविधिना सहैव राष्ट्रीयस्तरे योगे प्रतिभागाय वर्षस्य श्रेष्ठ: छात्र: इत्यनेन पुरस्कारेण सम्मानितोभवत्।
अस्मिन् अवसरे योगशिक्षकः राकेशकण्डवालः अवदत् यत् प्रथमवारं डिस्कवर 24 उत्तराखण्डेन छात्रान् उत्तराखण्डगौरवरत्नपुरस्कारेण सम्मानितम्, तदर्थं प्रसारवाहिन्या: च छात्राणां कृते वर्धापनानि।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button