संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

स्वर्गीयरितेशशर्मण: जयन्त्या: अवसरे सरस्वतीविद्यामन्दिरे जानकीनगरकोटद्वारे छात्रसम्मानसमारोहस्य आयोजनं ।

आदर्शव्यक्तिः भवितुं कुशलनिर्देशानां नियमविनियमानाम् अनुसरणं कर्तव्यं - पुलिस-उपाधीक्षक: "वैभवसैनी"

विद्यामन्दिरजानकीनगरे कोटद्वारे रितेशशर्माजयन्त्या: अवसरे छात्रसम्मानसमारोह: आयोजित: जात: ।
विद्यालयस्य प्रचारप्रसारप्रभारी एवं कार्यक्रमप्रमुख: एवं निदेशक: रोहितबलोदी विज्ञापितवान् यत् विशेषातिथि: पुलिस-उपाधीक्षक: वैभवसैनी, मुख्यातिथि: उषा सजवान:, कार्यक्रमाध्यक्ष: परागडिमरी, प्रधानाचार्य: मनोजकुकरेती कुंजबिहारीभट्ट: संयुक्तरूपेण मातृसरस्वत्या: समक्षे दीपं प्रज्ज्वाल्य कार्यक्रमस्य उद्घाटनं कृतवन्त: ।

कार्यक्रमस्य उद्घाटनं कुर्वन् विद्यालयस्य प्राचार्यः मनोज कुकरेती इत्यनेन उक्तं यत् विगत ३ वर्षेभ्यः स्वर्गीय: रितेशशर्मा इत्यस्य जन्मदिवसस्य अवसरे विद्यालये सर्वोत्तमछात्राणां कृते अभिनन्दनसमारोहः आयोजितः अस्ति। तदनन्तरं विद्यालयपरिवारस्य कृते स्वर्गीय: रितेशशर्मा इत्यस्य पिता राधेश्यामशर्मा माता मीनाक्षी शर्मा च विद्यालये सम्मानितौ। अस्मिन् वर्षे कार्यक्रमे उत्तराखण्डपरिषदीयपरीक्षा २०२२-२३ मध्ये ३० दशमकक्षाया: २० द्वादशकक्षाया: मेधावीछात्राः सम्मानिताः। उपपुलिसाधीक्षकः वैभवसैनी स्वसम्बोधने छात्राणां अभिनन्दनं कृत्वा आदर्शव्यक्तिः भवितुं कुशलनिर्देशाणां नियमविनियमानाम् अनुसरणं च विषये सूचनां दत्तवान्। मुख्यातिथिः सजवान: छात्रान् स्वलक्ष्यं प्रति जागरूकाय प्रेरणाम् अददात् तथा च कार्यक्रमस्य अध्यक्षः परागडिमरी शिशुविद्यामन्दिरस्य पूर्वविद्यार्थी इति कारणेन स्वस्य पूर्वानुभवं छात्रैः सह सयुक्तं कृतवान्। कार्यक्रमे विद्यामन्दिरस्य कनिष्ठछात्रै: च वरिष्ठछात्रै: समूहगीतं एवं च सरस्वतीवंदना प्रस्तुता । सहैव शिशुमन्दिरस्य छात्रै: स्वागतगीतं नृत्यं एवं राजस्थानी गुजराती गीतम् अपि प्रस्तुतं। अवसरेस्मिन् विद्यालयप्रबन्धक: राजेन्द्रजखमोला, अध्यक्ष: राकेश: ऐरन:, प्रधानाचार्य: कुंजबिहारी भट्ट:, पार्षदनीरुबाला खन्तवाल:, उपप्राचार्य: अनिलकोटनाला, राहुलभाटिया, राजनशर्मा, शिवरामबडोला, मोहनसिंह: गौरव: बुडाकोटी, नंदिनी नैथानी, सरोजनेगी, संगीता आदय: श्रुति: एवं प्रदीप: नौटियाल: आदय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button