संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

‘श्रीअग्रसेन-सम्मान-2023 इत्यनेन रा.इ.का.कण्वघाटित: प्रधानाचार्य: श्री रमाकांतकुकरेतिवर्य: सम्मानितोभवत्।

प्रधानाचार्य: रमाकांतकुकरेती मातृशारदासम्मानेनापि अभिनन्दितोस्ति

कोटद्वारं। महाराज-अग्रसेन-जयन्त्या:’ शुभावसरे ‘श्री अग्रसेन-सम्मान-2023 इत्यनेन रा.इ.का.कण्वघाटीत: प्रधानाचार्य: श्री रमाकान्तकुकरेतीवर्योपि सम्मानितोभवत् ।
श्री कुकरेतीवर्य: गेप्ससंस्थाद्वारा सामाजिकशैक्षणिकयोगदानाय पूर्वमपि सम्मानितोस्ति । तदतिरिक्तं अखिलभारतीयवैश्यमहासङ्गठनान्तर्गतं कोटद्वारे महाराज-अग्रसेन-जयंत्या: शुभावसरे ‘श्री अग्रसेनसम्मानं-2023’ समारोह: इत्यन्तर्गतं सम्मानितकार्यक्रमे प्रशंसनीयकार्याय सभाद्वारा अभिनन्दनं कृत्वा श्रीकुकरेतीवर्याय प्रशस्तिपत्राणि स्मृतिचिह्नानि च प्रदत्तानि।

तस्य सम्मानार्थं उज्ज्वलभविष्यस्य कामनया अखिलभारतीयवैश्यमहासङ्गठनेन सम्मानपत्रं पठितम् यत् श्री रमाकान्तकुकरेती पुत्र: श्री एम.पी.कुकरेती, अटलोत्कृष्टराजकीयवरिष्ठ-माध्यमिकविद्यालयकण्वघाट्यां प्रधानाचार्यपदे सेवां प्रददाति । विद्यालये अध्यापनकार्येण सह भवान समाजकार्येष्वपि संलग्न: वर्तते । अखिलभारतीयवैश्यमहासंघ कण्वनगरीकोटद्वारद्वारा आयोजिते ‘महाराज-अग्रसेन-जयन्त्या:’ शुभावसरे संगठनं ‘श्री अग्रसेन-सम्मान-2023-समारोहे सम्मानितं कृत्वा गौरवान्वितम् अस्ति । एतदर्थं अखिल-भारतीय-वैश्य-महासङ्गठनं कोटद्वारं भवत: उज्जवलभविष्यार्थं शुभकामनां ददाति।
सहैव संस्कृतभारत्या: प्रान्तसदस्य: एवं उत्तराखण्डसंस्कृताकादम्या: पौडीजनपदसंयोजक: श्रीरोशनगौड: एवं च कुलदीपमैन्दोला अपि सभाद्वारा सम्मानितौ जातौ। कार्यक्रमस्य संचालनं राकेश-अग्रवाल: अखिल-भारतीय-वैश्य-महासङ्गठनस्य उत्तराखंड-प्रदेश-संयोजक: एवं महेन्द्रकुमार-अग्रवाल: सहसंयोजक: विहितवन्तौ।

विदितं स्यात् प्रधानाचार्य: रमाकांतकुकरेती मातृशारदासम्मानेन अभिनन्दितोस्ति।अटलोत्कृष्टराजकीयवरिष्ठ- माध्यमिकविद्यालये ग्राम्य-एकताप्रगति-प्रेमांजलिसमागमसमितिद्वारा राष्ट्रपितामहात्मागांधिन: एवं देशस्य द्वितीयप्रधानमंत्रिण: भारतरत्नलालबहादुरशास्त्रिण: 154 तमजयन्त्या: ९ तमजन्मदिवसस्य अवसरे एकघण्टायाः स्वच्छता-अभियानकार्यक्रम: सञ्जात: ।अवसरेस्मिन् मालनीगौरवसेनानी अध्यक्ष: कप्तानश्रीधरप्रसाद : अध्यक्षतां विहितवान् ।

सम्मानितकार्यक्रमावसरे मुख्यातिथिरूपेण एमकेवी-एनकण्वघाटीत: प्रबन्धनिदेशकः प्रकाशचन्द्रकोठारी यूनां कृते देशस्य भविष्यस्य विषये ज्ञापयन् मादकद्रव्याणां दूरं स्थित्वा आदर्शमार्गं अनुसरणं कर्तुं शिक्षितवान् । गेप्स इत्यस्य संस्थापकनिदेशकः रामभरोसाकण्डवालः देवभूमे: अन्तर्गतं यूनां कृते प्रतिज्ञां दत्तवान् यत् नशामुक्त: भवितव्य: च अभियानं सफलं स्यात् । कार्यक्रमस्य आरम्भे अतिथय: मातृशारदासमक्षे दीपं प्रज्ज्वाल्य च द्वयो: महापुरुषयो: चित्रे माल्यार्पणं कृतवन्त: । सरस्वतीवन्दनं विधाय विविधगीतं छात्रैरत्र प्रस्तुतीकृतं।

अवसरेस्मिन् अटलोत्कृष्टराजकीयवरिष्ठमाध्यमिक- विद्यालयस्य प्रधानाचार्य: रमाकांतकुकरेती कप्तानश्रीधरप्रसादकेष्टवालेन एवं अतिथिना प्रकाशचन्द्रकोठारीवर्येण सामाजिकशैक्षणिकसेवार्थं शारदासम्मानेन सभाजित: ।

सम्मानावसरेस्मिन् सामाजिकसेवार्थं शैक्षणिकसेवार्थं च डॉ. चन्द्रमोहनद्वारा च मुख्यातिथिना श्रीप्रकाशचन्द्रकोठारीवर्येण ससम्मानेन प्रमाणपत्रं प्रदत्तं एवं च तेषां सम्माने रेखाध्यानीद्वारा पत्रवाचनं कृतं । श्री दिनेशचौधरी महात्मागान्धिनः जीवनं दर्शनं च प्रकाशं कृतवान्, मनमोहनकाला शास्त्रिण: उत्तमजीवनवृत्तौ प्रकाशं कृतवान् । कार्यक्रमस्य संयोजनं गेप्ससंस्थापक: रामभरोसाकण्डवालः अकरोत् । गेप्स इत्यस्य अध्यक्षा नीरजा गौड: सर्वेषां प्रति आभारं प्रकटितवती।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button