संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
कण्वनगरीकोटद्वार

महाराज-अग्रसेन-जयन्त्या: अवसरे शिक्षका: छात्रा: च श्री अग्रसेनसम्मानं-2023′ इत्यनेन समलंकृता:

रा.इ.का.कोटद्वारस्य डा.पद्मेशबुडाकोटीवर्य: प्रतिष्ठितशिक्षकेषु सम्मानित:।

।कोटद्वारं। अखिलभारतीयवैश्यमहासङ्गठन- कण्वनगरीकोटद्वारद्वारा ‘महाराज-अग्रसेन-जयंतीकार्यक्रम: समायोजित: यस्य शुभावसरे ‘श्री अग्रसेनसम्मानं-2023’ समारोह: इत्यन्तर्गतं विभिन्नविद्यालयानां छात्रा: व शिक्षका: सम्मानिता: अभवन्।
सम्माने सर्वप्रथमंं रा.इ.का.कोटद्वारस्य प्रख्यात: सम्मानितव्यक्तित्वं डॉ. पद्मेशबुडाकोटी प्रशस्तिपत्रेण, स्मृतिचिह्नेन च माल्यार्पणेन सम्मानितोभवत् । तत: एव छात्रा राखी राज्ये सर्वोच्चाङ्कप्राप्यमाणछात्रासु सभाद्वारा पुरस्कृता अभवत्, एतेन सह विद्यालयात् सुनीताशाहवर्याया: निर्देशने छात्राणां सुन्दरं प्रस्तुत्यर्थं श्रीमती शाहः अपि सम्मानिता अभवत् । सहैव संस्कृतक्षेत्रे योगदानकर्तार: अपि सम्मानिता: अभवन् । तेषु श्री रमाकान्तकुकरेतीवर्य: ,श्री रोशनलालगौड: कुलदीपमैन्दोला अपि सम्मानिता: अभवन् । विद्यालयस्य अभिभावकशिक्षकसंघाध्यक्ष: श्री महेन्द्र-अग्रवाल: सहसंयोजक:अखिलभारतीयवैश्यमहासङ्गठनकण्वनगरी- कोटद्वारत: च राज्यसंयोजक: राकेश-अग्रवाल: अखिल-भारतीय-वैश्य-महासङ्गठनत: छात्रेभ्य: शिक्षकेभ्य: उत्कृष्ठोपलब्धये सम्मानितवन्तौ ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button