संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
विहार

प्रकृतिरक्षणेनैव पर्यावरणं सुरक्षितं भविष्यति – डा.छबिलालन्यौपानेः

।। बाह्यपर्यावरणमिव मनःपर्यावरणमपि स्वच्छं कर्तव्यम् - श्रीवीरसनातनपूर्णेन्दुरायः ।। ।।स्वच्छतैव सेवा भवति – डा० रामसंयोगरायः।।

बिहार।भारतस्य बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे अवस्थितेन नागार्जुन-उमेश-संस्कृत-महाविद्यालयस्य राष्ट्रीयसेवायोजना-समूहेन महात्मनो गान्धिनो जयन्त्यवसरे स्वच्छताभियानस्य, ‘महात्मगान्धिनः पर्यावरणीयशिक्षा’ इत्येतद्विषयकोपरि दर्शनविषयकसहायकप्राध्यापकस्य डा०छबिलालन्यौपानेमहोदयस्य व्याख्यानस्य च आयोजनं श्रीवीरसनातनपूर्णेन्दुरायस्य संयोजकत्वे, प्रभारीप्रधानाचार्यस्य डा.रामसंयोगरायमहोदयस्य च आध्यक्षे विहितम्।

डा.छबिलालन्यौपानेमहोदयैः स्वीयव्याख्यानक्रमे उक्तं यत् प्रकृतिः सर्वेषां प्राणिनां संरक्षणाय प्रयासं करोति। इयं सर्वान् विविधैः प्रकारैः पुष्णाति, सुखसाधनैः च तर्पयति। पृथिव्यप्तोजोव्यावाकाशानि पर्यावरणस्य प्रमुखानि तत्त्वानि मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति। आव्रियते परितः समन्तात् लोकः अनेन इति पर्यावरणम्। यथा अजातशिशुः मातृगर्भे सुरक्षितः तिष्ठति तथैव मानवः पर्यावरणकुक्षौ। परिष्कृतं प्रदूषणरहितं च पर्यावरणम् अस्मभ्यं सांसारिकं जीवनसुखं, सद्विचारं, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति। प्रकृतिकौपैः आतङ्कितो जनः किं कर्तुं प्रभवति ? जलप्लावनैः, अग्निभयैः, भूकम्पैः, वात्याचक्रैः, उल्कापातादिभिश्च सन्तप्तस्य मानवस्य क्व मङ्गलम् ? अतः एव अस्माभिः प्रकृतिः रक्षणीया। तेन च पर्यावरणं रक्षितं भविष्यति। एतैः प्रकृतिम् ईश्वरस्य अभिव्यक्तिः, उपहाररूपं च प्रतिपादितम्। एतदप्युक्तं यत् गान्धिनः जीवनदर्शने पर्यावरणस्य संरक्षणस्य संवर्धनस्य च विचाराः अनुस्यूताः सन्ति। केन्द्रसर्वकारः, राज्यसर्वकाराश्च पर्यावरणस्य संरक्षणे संवर्धने च विविधाः योजनाः प्रचालयन्तः सन्ति।

अवसरेऽस्मिन् महाविद्यालयीयैश्छात्रैश्छात्राभिश्च पर्यवरणसंरक्षणविषयोपरि स्व-स्वविचाराः उपस्थापिताः।

कार्यक्रमस्य साधुसञ्चालनं कुर्वता महाविद्यालयस्य साहित्यविषयकसहायकप्राध्यापकेन श्रीवीरसनातनपूर्णेन्दुरायमहोदयेन उक्तं यत् – यथा वाह्यपर्यावरणस्य स्वच्छता करणीया, तथैव आन्तरिकस्य मनोरूपपर्यावरणस्यापि स्वच्छता कर्तव्या। त्याग-परिश्रम-परोपकार-दया-करुणा-अहिंसा-सत्यादिभिः गुणैरलङ्कृतो जनः एव स्वात्मनि गान्धित्वं लभते इति।

महाविद्यालयस्य प्रभारीप्रधानाचार्येण डा०रामसंयोगरायमहोदयेन स्वीयाध्यक्षीयभाषणे उक्तं यत् महात्मगान्धिनः ‘सरलजीवनम् – उच्चविचारः, सत्य एवम् अहिंसा’ विषयेषु विचारेषु पर्यावरणशिक्षा निहिता वर्तते। एभिः ‘स्वच्छतैव सेवा’ इतिविषयः दार्ढ्येन प्रतिपादयन् कथितं यत् अस्माकं स्वच्छाञ्जलिः एव महात्मानं गान्धिनं प्रति वास्तविकी श्रद्धाञ्जलिः भवति।

अवसरेऽस्मिन् महाविद्यालयस्य सहायकप्राचार्याः (डा.सरिताकुमारी,डा.रेणुझा,डा.सरस्वतीकुमारी,डा.रंजीतकुमारठाकुर,डा. नितेशकुमारमिश्रः, श्रीमती नियतिकुमारी) कार्यालयसहायकौ (श्रीमुकुन्दकुमारः, श्रीराजकुमारझा) च उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button