संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
कण्वनगरीकोटद्वारपौड़ी

पौडीजनपदे संस्कृतछात्रप्रतियोगितानां पुरस्कारेण सह समापनम्

नृत्ये द्विविधवर्गे रा.बा.इ.का.दुगड्डा शीर्षस्थाने ।। ।।संस्थानिदेशकेन प्रकाशचन्द्रकोठारीवर्येण विजेतृभ्य: प्रदत्त: पुरस्कार:।।

।कोटद्वारं। जनपदस्तरीयानां द्विदिवसीयसंस्कृतछात्रप्रतियोगितानां
पौडीजनपदस्य एमकेवी.एन.शिब्बुनगरकोटद्वारे समापनसमारोह: सम्पन्न: अभवत्। अवसरेस्मिन् संस्थानिदेशकेन प्रकाशचन्द्रकोठारीवर्येण सह श्री महेन्द्र-अग्रवाल:, विकासदेवरानी, ​​डॉ.दिनेशपाण्डे, वीरेन्द्रसिंहबर्थवाल:, डॉ. ममता मेहरा, नीरुबालाखन्तवाल:, मंजुजखमोला, अमितारावत:, रोशनगौड:, रमाकांतकुकरेती, इत्यादिभि: प्रदत्त: पुरस्कार: ।
उत्तराखण्डसंस्कृताकादमीहरिद्वारद्वारा आयोजितप्रतियोगितासु संस्कृतछात्रप्रतियोगितायाः प्रथमदिवसस्य विमोचितपरिणामानां अनुसारं कनिष्ठवर्गे समूहनाटके रा.इ.का.सेन्धिखालः प्रथमः, रा.इ.का.पिपली द्वितीयः, रा.इ.का.उफरैखाल: तृतीय: आसन्। समूहनृत्ये रा.बा.इ.का.दुगड्डा प्रथम:, रा.इ.का.कोटद्वारं द्वितीय:, ज.इ.का. कमलपुरसंगलाकोटी तृतीय: सम्प्राप्ता: । सहैव
वादविवादे डी.ए.वी. पब्लिकस्कूलबलभद्रपुर: प्रथम:, ज्वाल्पासंस्कृतविद्यालय: द्वितीय:, संस्कृतवि.भुवनेश्वरीचैधार: तृतीय: आसन् । आशुभाषणे सेण्ट्जोसेफ्कान्वेण्ट्विद्यालयः प्रथमः, रा.इ.का.थलीसैण: द्वितीयः, रा.उ.मा.वि.बगानिखालः तृतीयः अभवन् । श्लोकोच्चारणे सं.वि.ज्वालापाधाम प्रथम:, रा.इ.का.धुमाकोट: द्वितीय:, संविभुवनेश्वरी चैधार: तृतीय: आसन्।

संस्कृतप्रतियोगितायाः द्वितीयदिने
वरिष्ठवर्गप्रतियोगितासु सर्वप्रथमं समूहगानस्य आरम्भः अभवत् यस्मिन् रा.इ.का.नैनीडाण्डा प्रथमः, ज्वालाधामसंस्कृतविद्यालय: द्वितीय: संस्कृतमहाविद्यालयः ज्वालाधाम तृतीयः सम्प्राप्ता: । समूहनृत्ये रा.इ.का.दुगड्डा प्रथमस्थानं, रा.इ.का.पीपली द्वितीयस्थानं, रा.इ.का.कलालघाटी तृतीयस्थानं प्राप्तवन्त: ।
समूहनाटके के.सं.विविदेवप्रयाग: प्रथम:, संस्कृतमहाविद्यालय: ज्वाल्पा धाम द्वितीयं, प.इ.का.लियाखल: तृतीयं स्थानं प्रातवन्त: । वादविवादे प्रथमस्थानं केसंविविरघुनाथकीर्तिपरिसरदेवप्रयाग:, द्वितीयस्थानं ज्वालापाधामविश्वविद्यालय:, तृतीयस्थानं च रा.इ.का. रिखणीखाल: क्रमश: प्राप्तवन्त: ।
आशुभाषणे प्रथमस्थाने केसंविविदेवप्रयागः द्वितीयं स्थानं, सं.महाविद्यालयज्वालापा धाम तृतीयं, रा.इ.का.सिद्धखाल: च श्लोकोच्चारणे प्रथमस्थानं कोमलशर्मा, द्वितीयं गौरवथपलियाल:, तृतीयस्थानं अंशिका स्थानमर्जितवन्त:

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button