संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
ऋषिकेश

संस्कृतछात्रसेवासमित्या व्यापकान्दोलनं संचेतितं

संस्कृतशिक्षानिदेशकेन श्रीशिवप्रसादखालीवर्येण माध्यमिकशिक्षानिदेशालये स्थानं समादिष्टमासीत्

• संस्कृतशिक्षापरिषत् संंस्कृतनिदेशालयश्च न हरिद्वारे न देहरादूने, विद्यालयमहाविद्यालयश्च छात्रा: संकटापन्ना:

• संस्कृतशिक्षामन्त्रिणा प्रदत्त: आसीत् परिवर्तनादेश:

• उत्तराखण्डे द्वितीयराजभाषाया: अपमानं वारं वारं संजायते ।

ऋषिकेश । २०२३ तमस्य वर्षस्य मार्चमासस्य २० दिनाङ्के समिते: अध्यक्षस्य सर्वेशतिवारीमहोदयस्य अध्यक्षतायां समितिकार्यालये संस्कृतछात्रसेवासमित्याः सभा सम्पन्ना।
सभायाः अध्यक्षतां कुर्वन् अध्यक्षः अवदत् यत् पूर्वं उत्तराखण्डसंस्कृतशिक्षापरिषद् उत्तराखण्डसंस्कृतनिदेशालयः च व्यापकविरोधस्य कारणात् उत्तराखण्डसंस्कृतशिक्षा-अकादमी- हरिद्वारस्य भवने स्थानान्तरितौ आस्तां। संस्कृतशिक्षायाः अध्यक्षतायां सभायां समागते कार्यवृत्ते परिषत् संस्कृतनिदेशालयं च पुनः देहरादूननगरं स्थानान्तरयितुं संस्कृतनिदेशकेन श्रीशिवप्रसादखालीवर्येण आदेशाः निर्गताः।

“सहस्रछात्रेभ्य: समुपस्थितं संकटं”

परिवर्तनविषये सम्प्रति कोऽपि कार्यवाही न कृता। यस्मात् कारणात् संस्कृतशिक्षापरिषत् देहरादूननगरे पञ्जीकृता अस्ति, गतवर्षेषु देहरादूनतः कार्यं कुर्वती आसीत्, परन्तु गतकालस्य समये संस्कृतशिक्षापरिषत् पञ्जीकृता अस्ति इति कारणतः सहस्रशः संस्कृतछात्राणां भविष्यं अनिश्चिततायां दृश्यते । कार्यालयीयपरिवर्तनकारणात् हरिद्वारे संस्कृत-अकादमी-भवने स्थानान्तरितम् अधुना यदा मन्त्री पुनः देहरादून-नगरं स्थानान्तरयितुं आदेशं दत्तवान् तदा पुनः केचन अधिकारिणः स्व-व्यक्तिगत-हितकारणात् तस्य देहरादून-नगरं स्थानान्तरयितुं बाधन्ते, येन हानिः भविष्यति।

“अकंपत्रेषु हरिद्वारदेहरादूनस्य संकटं”

छात्राणां भविष्यस्य उपरि संकटमेघाः दृश्यन्ते यतोहि येषां छात्राणां पूर्वमध्यमाकक्षाया: अंकपत्रेषु देहरादूनस्य पत्रसंकेत: आसीत्, तेषां छात्राणां उत्तरमध्यमाकक्षाया: इदानीं हरिद्वारस्य पत्रसंकेतं भविष्यति, येन तेषां प्रमाणपत्रेषु संकटः उत्पन्नः, यस्मात् कारणात् केषाञ्चन छात्राणां भविष्यम् विपत्तौ भविष्यति। एषा प्रक्रिया कृता, तथा च सभायां निर्णयः अभवत् यत् सर्वकारेण शीघ्रमेव कार्यवाही कर्तव्या, यदि कोऽपि कार्यवाही न क्रियते, तर्हि संस्कृतछात्रसेवासमित्या राज्ये आन्दोलनं प्रारभ्यते। सभायां पुरुषोत्तमकोठारी, सूरजबिजल्वाण:, सुरेशपन्त:, शुभमनौटियाल:, शुभमसिलस्वाल:, अभिषेकमैठाणी आदय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button