संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डऋषिकेश

सहायकनिदेशक: डॉ. चण्डीप्रसादघिल्डियाल: मुख्यातिथिरूपेण प्रतिभासम्मानदिवसस्य उद्घाटनं करिष्यति।

।ऋषिकेश । पंजाबसिन्धक्षेत्र-इन्टरमीडिएट-कॉलेज इत्यत्र मुख्यातिथिरूपेण शिक्षाया: एवं संस्कृतशिक्षाया: सहायकनिदेशक: डॉ. चण्डीप्रसादघिल्डियाल: प्रतिभासम्मानसमारोहस्य उद्घाटनं करिष्यति।

प्राचार्यः ललितकिशोरशर्मा अवदत् यत् नूतने “राष्ट्रियशिक्षानीतिः २०२०” इत्यस्मिन् विद्यालये अध्ययनं कुर्वतां छात्राणां अन्तस्थप्रतिभां बहिः आनेतुं उद्देश्यं कृत्वा प्रत्येकस्मिन् विद्यालये प्रतिभासम्मानसमारोहस्य आयोजनं भविष्यति, अस्यां श्रृङ्खलायां ८ दिसम्बर २०२३ दिनाङ्के .विद्यालये “प्रतिभासम्मानदिवसस्य” भव्यकार्यक्रमस्य आयोजनं क्रियते।

प्राचार्य: संसूचितवान् यत् प्रतिभासम्मानदिवसस्य उद्घाटनं प्रातः 10:30 वादने स़स्कृतशिक्षाविभागस्य सहायकनिदेशक: डॉ. चण्डीप्रसादघिल्डियालद्वारा मुख्यातिथिरूपेण दीपप्रज्ज्वालनेन प्रारप्स्यते। यत्र विद्यालयस्य छात्रैः शिक्षकैः दर्शकै: च कार्यक्रमं शक्यते। तथा च सांस्कृतिककार्यक्रमाणाम् भव्यप्रस्तुतिना सह विद्यालयस्य प्रतिभानां मुख्यातिथिना अपि सम्मानः भविष्यति।

सः अवदत् यत् अस्मिन् अवसरे अनेकेषां स्थानीयविद्यालयानाम् प्रधानाध्यापकाः, साहित्यशिक्षा, संस्कृतिसम्बद्धाः अनेके व्यक्तित्वसम्पन्ना: गणमान्या: अपि आमन्त्रिताः सन्ति।अद्भुतविद्वताप्रशासनिकक्षमताविद्यमानः सहायकनिदेशकः डॉ.घिल्डियाल: प्रथमवारं अधिकारीरूपेण समारोहे भविता । तेषां आगमनवार्तायाः कारणेन विद्यालयपरिवारेण सह तीर्थनगरे आनन्दस्य तरङ्गः अस्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button