संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

ई-टेक्नोमाइण्ड इत्यत: सम्बद्धा: लघुयोगछात्रा: अभवन् सम्मानिता:

कोटद्वारं। कण्वनाम्ना प्रसिद्ध: कण्वगरीकोटद्वारम् अद्वितीयप्रतिभाभिः अधिकतया प्रफुल्लितम् अस्ति। अस्मिन् क्षेत्रे योग-संस्कृतेः, संस्कृतस्य च अद्भुतः संगमः अनेकेषु कार्यक्रमेषु दृश्यते ।

योगक्षेत्रे स्वस्य तेजस्वीप्रतिभायाः सह प्रतिक्षणं छात्रान् अग्रे नेतुम् आचरन् योगशिक्षक: राकेशकण्डवालः कोटद्वारस्य विभिन्नस्थानेषु तथा राज्यराष्ट्रीयस्तरयोः योगस्य ध्वजोत्तोलयन् योगाय नूतनं आयामं ददाति। रा.इ.का. काण्डाखाले तस्य शिक्षकैः सह अस्य छात्राणां जनपद-राज्य-राष्ट्रीय-स्तरस्य पदं प्राप्तम् अस्ति । तस्य छात्राः त्रिपुरा, चेन्नई, मध्यप्रदेश इत्यादिषु राज्येषु राष्ट्रियस्तरस्य प्रतिभां प्रदर्शितवन्तः।

सोमवासरे रामनगरे तस्य छात्राणां विशेषसम्मानप्राप्तावसरे अभिनन्दनसमारोहस्य आयोजनं ई-टेक्नोमाइण्डसंस्थायाम् सञ्जातं । यस्मिन् कोटद्वारस्य ई-टेक्नोमाइंड इत्यत: सम्बद्धछात्रै: योगशिक्षकस्य राकेशकण्डवालस्य मार्गदर्शने भारतयोगखेल- महासंघद्वारा रामनगरे आयोजिते राज्यस्तरीययोगप्रतियोगितायां प्रतिभाग: सञ्जात:। प्रतियोगितायां संतोषी रावत: प्रथमस्थानं, श्रेया जोशी प्रथमस्थानं, सार्थककण्डवाल: द्वितीयं, अद्विक: द्वितीयं, दीप्ति: तृतीयं स्थानं प्राप्तवन्त: ।

सहैव सहमार्गदर्शिका सोनमरावत: एवं
मुख्यातिथि: डॉ. गिरीश: उनियाल: पारितोषरावत: दोलतसिंहगुसाई पूरनसिंहनेगी संजीवमोहन: अजयजोशी कुलदीपमैन्दोला आदिभिश्च पुरस्कारेण छात्रा: सम्मानिता: सार्थककण्डवाल:, अवांतिका जोशी, श्रेया जोशी, अवनी नेगी, श्रायश विष्ट:, आसवी नेगी,आद्विक, अंजली नेगी, अवनी भोज:, अद्रिका, संतोषी रावत: यशिका नेगी, प्रियांशी पंवार:, शुभम: रावत: आदय: अवसरेस्मिन् सम्मानिता: अभवन् । कार्यक्रमस्य निर्देशनं “डिस्कवर उत्तरखण्ड 24 न्यूज” इत्यस्य सञ्चालकेन श्री अम्बेशपंतद्वारा तथा संचालनं योगमार्गदर्शकेन श्रीकण्डवालेन कृतं।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button