संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

मुख्यमन्त्रिणा महन्तनृत्यगोपालदासेन सह कृतं मेलनम्

राममन्दिरनिर्माणकार्ये कृता चर्चा, स्वास्थ्य अपि विषये ज्ञातः

अयोध्या। मुख्यमन्त्रिणा योगिना आदित्यनाथेन रविवासरे अयोध्यायां महन्तनृत्यगोपालदासेन सह अपि मेलनं कृतम् । अयोध्याभ्रमणकाले मुख्यमन्त्री योगी आदित्यनाथः मणिरामदासछावनी–इत्यस्मिन् महन्तनृत्यगोपालदासेन सह मेलनं कृत्वा श्रीराममन्दिरस्य निर्माणविषये चर्चां कृतवान् । तेन सह मुख्यमन्त्री तस्य स्वास्थ्यस्य विषये अपि पृष्टवान् । मुख्यमन्त्री किञ्चित्कालं यावत् अत्र उपस्थितः आसीत् । तदनन्तरं मुख्यमन्त्री विश्रामभवनं प्रति प्रस्थितवान् ।।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button