संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डऋषिकेश

संस्कृतप्रतियोगितासु सर्वोत्तमविद्यालयचलवैजयन्तीपुरस्कार: श्री वेदमहाविद्यालय-ऋषिकेशेन सम्प्राप्त:

दर्शनसंस्कृतमहाविद्यालयस्य वार्षिककार्यक्रमे आयोजिता: अभवन् विविधप्रतियोगिता:

प्रेषक:-विपिन:उनियाल:।ऋषिकेश:। विगतदिने उत्तराखण्डस्य श्री दर्शनसंस्कृतमहाविद्यालयस्य वार्षिककार्यक्रमे आयोजितासु विविधप्रतियोगितासु श्रीवेदमहाविद्यालयस्य ऋषिकेशस्य वरिष्ठकनिष्ठवर्गयो: छात्रै: श्रेष्ठप्रदर्शनं कृतम्। तत्र वरिष्ठवर्गे सूत्रान्त्याक्षरीप्रतियोगितायां प्रथमपुरस्कार:, योगेशचमोली, ऋषभबहुगुणा, प्रियांशुसेमवाल: आयुषबहुगुणा, मयङ्कपन्तश्च प्राप्तवन्त:। श्लोकान्त्याक्षरीप्रतियोगितायां प्रथमपुरस्कार: मनीषरायल:, आयुषकोठारी, शिवसागरनौटियाल:, वैभवपाठक:, केशव: उनियालश्च प्राप्तवन्त:।

चित्रकलाप्रतियोगितायां- प्रथम: तृतीयपुरस्कारश्च सूरजबिजलवान:, दीपेश: उनियालश्च प्राप्तवन्तौ। एकलगीतगायने सान्त्वनापुरस्कार: अभिषेकजोशी प्राप्तवान्। श्लोकोच्चारणप्रतियोगितायां तृतीयपुरस्कार: आयुषकोठारी प्राप्तवान्। शिखाप्रतियोगितायां द्वितीय: तृतीय: सान्त्वनापुरस्कारश्च प्रशान्त: उनियाल: दीपेश: उनियाल:, मयंकपन्तश्च प्राप्तवन्त:। शंखवादने द्वितीयपुरस्कार: सांत्वनापुरस्कारश्च मनीषनौटियाल: वैभवपाठकश्च प्राप्तवन्तौ।

कनिष्ठवर्गे सूत्रान्त्याक्षरीप्रतियोगितायामपि द्वितीयपुरस्कार: दीपांशुसती, अभिनव: उनियाल: अभिषेकनौटियाल:, शुभमडिमरी, प्रियांशुभट्टश्च लब्धवन्त:।श्लोकान्त्याक्षरीप्रतियोगितायां प्रथमपुरस्कार: अभिषेक: उनियाल: आदित्यरायल:, नितेशसेमवाल:, शुभमजोशी, देवराज: उपाध्यायश्च प्राप्तवन्त:। चित्रकलाप्रतियोगितायां प्रथम: द्वितीयपुरस्कारश्च अङ्कितसेमाल्टी, दिव्यांशुबहुगुणा च प्राप्तवन्तौ। शिखाप्रतियोगितायां प्रथमपुरस्कार: भागीरथगिरी प्राप्तवान्। सामान्यज्ञानप्रतियोगितायां – विशेषपुरस्कार: शुभमडिमरी देवराज उपाध्यायश्च प्राप्तवन्तौ। शङ्खवादने द्वितीय: तृतीयपुरस्कारश्च आर्यजोशी, आदित्यरायलश्च प्राप्तवन्तौ।

अवसरेऽस्मिन् विद्यालयस्य प्रधानाध्यापक: कृष्णप्रसाद: उनियाल: प्रबन्धक: रविन्द्रकिशोरशास्त्री सुनीलदत्तविजल्वाण:, सङ्गीताजेठुडी, विपिन: उनियाल:, डॉ.अजीतप्रकाशनवानी दीपककोठारी चादिभि: सर्वै: छात्राणाम् उज्जवलभविष्याय सहर्षं शुभकामना: प्रदत्ता:। प्रधानाचार्येण दर्शनसंस्कृतमहाविद्यालयाय अस्य आयोजनस्य कृते धन्यवादः प्रकटित:।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button