संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डऋषिकेश

श्रीदर्शनमहाविद्यालये बटुकानामभवत् उपनयनसंस्कार:

प्राचार्येण राधामोहनदासेन गायत्रीमन्त्रस्य अक्षरश: व्याख्यानं कृतं

प्रेषक:-आशीषजुयाल: । ऋषिकेश।
टिहरीजनपदान्तर्गते श्रीराघवाचार्यद्वारास्थापिते शतवर्षपुरातने श्रीदर्शनमहाविद्यालये आयोक्ष्यमाणे उपनयनसंस्कारस्य क्रमे प्रातर्बेलायां सङ्कल्पपूर्वकं गणेशादिपञ्चांगपूजनपूर्वकं दशविधस्नानम्, उपाकर्म, स्वाध्यायः, ऋषिपूजनं, तर्पणं, होमं, त्रिपथगामनिभगवतिगंगायां हिमाद्रिस्नानं, नूतनप्रविष्टबटुकानाम् उपनयनसंस्कारं नवोपवीतधारणं, गुरुदीक्षादिभिः सत्कर्मभिः संयुक्तमद्यतनं दिवसं आसीत् ।

अवसरे$स्मिन मुख्यातिथिरूपेण गुरुचरणमिश्रादिनाम्मार्गदर्शनं प्राप्तवन्त:। मिश्रावर्येण शौचाचारविषये विस्तृतं व्याख्यानं प्रदत्तं। विद्यालयस्य अध्यक्षप्रबंधकौ अपि छात्रान् सम्बोधितवन्तौ। संस्कारे पूजनं आचार्यकमलडिमरी- -आशीषजुयालौ कृतवन्तौ दिवसमिदं सर्वेषाङ्कृते मङ्गलमयं, सुखमयञ्च भूयात् । अवसरे$स्मिन विद्यालयस्य प्राचार्य: डा. राधामोहनदासेन नूतनप्रविष्टबालकान्
गायत्रीमन्त्रस्य अक्षरश: व्याख्यानं सन्ध्यावन्दनादिविषये च गुरुकुलपरम्पराया: सारगर्भितं व्याख्यानं छात्रहिताय प्रदत्तं। उपनयनसंस्कारेस्मिन् श्रीसुशीलनौटियाल:, श्रीसंदीपकुकरेती, श्रीशान्तिप्रसादमैठाणी, श्रीरामप्रसादसेमवाल:, श्रीमुकेशकुमार:, श्रीसत्येश्वरप्रसादडिमरी, श्रीअनूपसिंह:, श्रीपूर्णानंदहरीश: गोपीसिलस्वाल: श्रीमतीसीमादया: कार्यक्रमे उपस्थिता: आसन् ॥

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button