संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

उत्तराखण्डसंस्कृतशिक्षा-परिषद: 1579 संस्कृतछात्राणां परीक्षापरिणाम: 24.05.2023 दिनांके प्रकाश्यते।

।। विगतवर्षम् इव संस्कृतविद्यालयानां परीक्षापरिणाम: श्रेष्ठतामवाप्नोति। अवश्यमेव छात्रा: उच्चश्रेण्यां उत्तमपरिणामेन भवन्तु इति मम सर्वेभ्य: अग्रिमशुभकामना: --"डा.वाजश्रवा-आर्य:" ।।

• 8 अप्रैल 2023 दिनांकत: 21 अप्रैल 2023 दिनांकपर्यन्तं प्रदेशस्य 25 परीक्षाकेन्द्रेषु अभवत् परीक्षा ।

• 27 अप्रैल दिनांकत: 03 मई 2023दिनांकपर्यंतं ऋषिकुलविद्यापीठब्रह्माचर्याश्रमसंस्कृतमहाविद्यालयहरिद्वारे मूल्यांकनकार्यं सम्पन्नं जातं।

देहरादून। उत्तराखण्ड-संस्कृत-शिक्षा-परिषद: अस्य वर्षस्य पूर्वमध्यमा-उत्तरमध्यमयो: परीक्षापरिणाम: बुधवासरे 24.05.2023 दिनांके अपराह्नसमये एकादशवादने प्रकाश्यते । विदितम् अस्ति यथा उत्तराखण्डस्य संस्कृतविद्यालयीय- -माध्यमिकपरीक्षाया: कृते उत्तराखण्डसंस्कृतशिक्षापरिषत् वर्तते । प्रतिवर्षे परिषद्द्वारा समयेन परिक्षापरिणाम: प्रकाश्यते।

परिषद: सचिव: डा० वाजश्रवा-आर्य: विज्ञापितवान् यत् उत्तराखण्डराज्यान्तर्गतं संचालितं संस्कृतविद्यालयेषु अध्ययनरतछात्र-छात्राणां पूर्वमध्यमा (हाईस्कूल ) एवं उत्तरमध्यमा ( इण्टरमीडिएट) इत्यनयो: परिषदीयपरीक्षाया: 2023 वर्षस्य आयोजनं 8 अप्रैल 2023 दिनांकत: 21 अप्रैल 2023दिनांकपर्यन्तं प्रदेशस्य 25 परीक्षाकेन्द्रेषु परीक्षा अभवत् । तत्रैव परीक्षाया: उत्तरपुस्तिकानां मूल्यांकनं 27 अप्रैल दिनांकत: 03 मई 2023दिनांकपर्यंतं ऋषिकुलविद्यापीठब्रह्माचर्याश्रमसंस्कृत- -महाविद्यालयहरिद्वारे सम्पन्नं जातं । संस्कृतपरिषद: अस्यां परीक्षायां पूर्वमध्यमात: आहत्य 634 परीक्षार्थिन: एवं उत्तरमध्यमात: आहत्य 945 परीक्षार्थिन: पंजीकृता: आसन् । उत्तराखण्डस्य संस्कृतविद्यालयानां 1579 छात्राणां परीक्षापरिणाम: परिषद्द्वारा बुधवासरे प्रकाश्यते ।
अस्मिन्नवसरे परिषत्-सचिवेन डा.वाजश्रवा-आर्येण शुभकामना: प्रदत्ता: यत् विगतवर्षम् इव संस्कृतविद्यालयानां परीक्षापरिणाम: श्रेष्ठतामवाप्स्यति। अवश्यमेव छात्रा: उच्चश्रेण्यां उत्तपरिणामेन भवन्तु इति मम सर्वेभ्य: अग्रिमशुभकामना: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button