संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारतीहरिद्वार

काव्यशास्त्रसम्प्रदायपरिचये संस्कृतभारती-उत्तराञ्चलद्वारा साप्ताहिकम् अन्तर्जालीयं व्याख्यानम् ।

प्रथमवारं संस्कृतभारत्या: विद्वत्-परिषद्द्वारा समायोजित: शास्त्रप्रबोधनवर्ग:

• काव्यशास्त्रविनोदेन कालो गच्छति धीमतां इत्युद्दिश्य जातं षड्शास्त्रसम्प्रदाये व्याख्यानं ।

उत्तराखण्डः। संस्कृतभारती-उत्तराञ्चलद्वारा 15-05-2023 दिनाङ्कतः 22-05-2023 दिनाङ्कपर्यन्तं शास्त्रप्रबोधनवर्गे काव्यशास्त्रसम्प्रदायपरिचयः इति मुख्यविषयान्तर्गतानां काव्यशास्त्रस्य षट्सम्प्रदायानां परिचयक्रमे आनलाईनव्याख्यानमाला समायोजिता।तत्र “काव्ये प्राधान्यम् आत्मत्वं” वा रसादिषु तत्त्वेषु कस्य वरीवर्ति इत्येव सिद्धान्तं पुरस्कृत्य रस-अलङ्कार-रीति-ध्वनि-वक्रोक्ति-औचित्येति षट्सम्प्रदायानां परिचयः प्रतिदिनं पृथक्पृथक्- विदुषा पृथक्पृथक्विषयमादाय स्वविचाराः प्रस्तुताः ।

प्रथमदिवसे उत्तराखण्ड-संस्कृत-विश्वविद्यालय-हरिद्वारस्य सहायकाचार्येण डॉ. कञ्चनतिवारीमहोदयेन “रससम्प्रदायपरिचयः” इति विेषये शास्त्रियरीत्या व्याख्यानं प्रदत्तम् । तेन स्वोद्बोधने आचार्यभरतसम्मतस्य रससूत्रस्य “विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः” इत्यस्य काव्यशास्त्रानुसारं विवेचनं विहितम् । तिवारिमहोदयेन रससूत्रस्य चतुर्णां व्याख्याकाराणां मतानि समुपस्थाय सामाजिकान् रसावबोधदृष्ट्या अभिनवगुप्तसम्मत- अभिव्यक्तिवादः प्रस्तूयते। द्वितीयदिने राजकीयमहाविद्यालयशीतलाखेतस्य सहायकाचार्यः डॉ. प्रकाशचन्द्रजांगी-महोदयः “अलङ्कारसम्प्रदायः” इत्यस्मिन् विषये विस्तृतं व्याख्यानं प्रदत्तवान् ।सः भामहादीनामालङ्कारिकाणां मतानि उपस्थापनपूर्वकं विविधान् अलङ्कारान् उदाहरति। केन्द्रियसंस्कृतविश्वविद्यालयदेवप्रयागस्य सहायकाचार्येण डॉ. दिनेशचन्द्रपाण्डेयवर्येण तृतीयदिवसे वक्रोक्तिः काव्यजीवितम् इत्यादिकं स्वारस्यं प्रस्तुवता “वक्रोक्तिसम्प्रदायपरिचयः” इति विषये गभीरा चर्चा कृता । चतुर्थे दिने डॉ. नवीनचन्द्रपन्तः “ध्वनिसम्प्रदायपरिचयः” इति विषयके व्याख्याने काव्यस्यात्मा ध्वनिः इत्यादिकम् आनन्दवर्धनाचार्यमतं सोदाहरणं प्रस्तौति।
पञ्चमदिवसे “औचित्यसम्प्रदायस्य परिचयः” इति विषये वक्तृत्वेन पी. एन. जी. राजकीयस्नातकोत्तर- महाविद्यालय-रामनगरस्य असि. प्रोफेसर ,संस्कृतविभागीय-डॉ. मूलचन्द्र-शुक्लेन ‘लोकशास्त्रयोरौचित्यसन्दर्भाः प्रभावपूर्णरीत्या निगदिताः |

• उचितस्य च यो भावस्तदौचित्यं प्रचक्षते –डा.मूलचन्द्रशुक्ल:।

डॉ. शुक्लमहोदयेन प्रोक्तं यत् अस्य प्रतिष्ठापकाचार्यत्वेन क्षेमेन्द्रो वर्तते।साहित्यज्ञानां कार्याणि वचनानि च औचित्यपूर्णानि भवन्ति,लोकेऽपि समुचितानि वचनानि कार्याणि च सम्पूज्यन्ते अनौचित्ययुतानि कार्याणि च दूष्यन्ते । अत एवोक्तं क्षेमेन्द्रेण- “उचितं प्राहुराचार्याः सदृशं किल यस्य यत्। उचितस्य च यो भावस्तदौचित्यं प्रचक्षते।।”
तेनोक्तं यत् “औचित्यविचारचर्चा” इत्यत्र ग्रन्थे औचित्यस्य पदादिसप्तविंशतिभेदान् क्षेमेन्द्रः प्रतिपादयति। षष्ठदिने कार्यक्रमसंयोजकेन संस्कृतभारत्याः प्रान्तविद्वत्सदस्येन डॉ. कञ्चनतिवारीमहोदयेन “रीति-गुणसम्प्रदायपरिचयः” इत्यत्र रीतिरात्मा काव्यस्य,विशिष्टा पदरचना रीतिः इत्यादिकं रीतिसम्म्मतं सारगर्भितं व्याख्यानं प्रस्तुतम् । अन्तिमे दिवसे “काव्यशास्त्रपरिचयसमन्वयः”इति विषयके परिचर्चात्मके सत्रे समेषां विदुषां प्रतिभागिनां च कृते परस्परं परिचर्चात्मकस्य सत्रस्य आयोजनं विहितम्। अत्र षट्सम्प्रदायानां स्वस्वमतानुसारं मतप्रस्तुतिपूर्वकं केचन विद्वांसो विद्यार्थिनो वा काव्ये रसस्य प्रामुख्यम् आत्मत्वेन वा केचन ध्वनेरात्मत्वं वा स्वीकृतवन्तः । तत्रापि रसस्य आत्मत्वं सर्वैरपि विद्वद्भिः मुक्तकण्ठेन यथाशास्त्रं स्वीक्रियते ।अस्य आध्यक्ष्यं निर्वहति संस्कृतभारत्याः प्रान्ताध्यक्षा डॉ. जानकीत्रिपाठिमहोदया । तया स्वसम्बोधने निगदितं यत् संस्कृतस्य देश- विदेशयोः सर्वत्रापि प्रचारः प्रसारः महत्त्वञ्च दरीदृश्यते।

• संस्कृतविद्वत्सदस्यानां व्याख्याने समुपस्थिता: विद्वांस:।

कार्यक्रमेऽस्मिन् प्रतिदिनं संस्कृतभारत्याः विशिष्टविद्वांस अतिथयः संयुता आसन् । तत्र उत्तराखण्ड-संस्कृत -विश्वविद्यालय- हरिद्वारस्य आचार्यः डॉ. प्रकाशचन्द्रपन्तः,डॉ. सञ्जूप्रसादध्यानी, डॉ. चन्द्रप्रकाश -उप्रेती इत्यादयो विद्वांसः यथाकालम् उद्बोधितवन्तः । व्याख्यानान्ते डॉ. दिनेशचन्द्रपाण्डेयः,डॉ.जगदीशजोशी इत्यादय अतिथिभिः सह समेषां प्रतिभागिनां कातर्ज्ञ्यं निवेदितवन्तः। कार्यक्रमस्य सञ्चालनं तकनीकिसहयोगश्च डॉ. जगदीशजोशी महोदयेन सम्पादितः| कार्यक्रमे डॉ.दिनेशचन्द्रपाण्डेयः, डॉ.कुलदीपमैन्दोला, डॉ.जगदीशपाण्डेयः, डॉ.नीलेशः,डॉ. चन्द्रप्रकाश: उप्रेती, डॉ. भानुपाण्डेयः,डॉ. मूलचन्द्र-शुक्लः, हेमन्तजोशी, संस्कृतभारत्याः नैके पदाधिकारिणः, कार्यकर्तारश्च ,पिपठिषवः जिज्ञासवश्च विद्यार्थिन: इत्यादय उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button