संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डनैनीतालसंस्कृत भारतीहरिद्वार

साहित्यज्ञानां कार्याणि वचनानि च औचित्यपूर्णानि”-“डा.मूलचन्द्रशुक्ल:”

संस्कृतभारती-उत्तराञ्चलद्वारा "लोकशास्त्रयोः औचित्यम् " इत्यस्मिन् विषये संचालितं व्याख्यानम्"

उत्तराखण्ड। संस्कृतभारती-उत्तराञ्चलद्वारा काव्यशास्त्रसम्प्रदायपरिचयः इति मुख्यविषयान्तर्गतानां काव्यशास्त्रस्य षट्सम्प्रदायानां परिचयक्रमे रस-अलङ्कार-वक्रोक्ति-ध्वनि-इति चतुर्सम्प्रदायानां परिचयो विविधैः विद्वद्भिः पुरस्कृतः । तस्मिन्नेव क्रमे “औचित्यसम्प्रदायस्य परिचयः” इत्यस्मिन् विषये काव्यशास्त्रिय-व्याख्यानमाला आयोजिता | अत्र मुख्यवक्तृत्वेन पी. एन. जी. राजकीयस्नातकोत्तर- महाविद्यालय-रामनगरस्य असि. प्रोफेसर ,संस्कृतविभागत: डॉ.मूलचन्द्र-शुक्लः लोकशास्त्रयोः औचित्यसन्दर्भान् प्रभावपूर्णरीत्या उक्तवान् |

डॉ. शुक्लमहोदयेन प्रोक्तं यत् रसादिषट्सम्प्रदायेषु औचित्यसम्प्रदायस्य महन्महत्त्वं वरीवर्ति। अस्य प्रतिष्ठापकाचार्यत्वेन प्रवर्तकत्वेन वा हास्यमहाकविः क्षेमेन्द्रो वर्तते।साहित्यज्ञानां कार्याणि वचनानि च औचित्यपूर्णानि भवन्ति,लोकेऽपि समुचितानि वचनानि कार्याणि च सम्पूज्यन्ते अनौचित्ययुतानि कार्याणि च दूष्यन्ते । एवमेव काव्यलेखने रस-गुण-रीति-कोष-व्याकरणादिगत-उचितस्थानविन्यासादि- -नियमपरिपालनादिदृष्ट्या यथायोग्यम् औचित्यत्यस्य परिपालनं निश्चप्रचं विधेयमस्माभिः। यतोहि लेशमात्रमपि प्रवर्तितमनौचित्यं सर्वमपि काव्यसुषमां विनष्टुं प्रभवति। अत एवोक्तं क्षेमेन्द्रेण- “उचितं प्राहुराचार्याः सदृशं किल यस्य यत्।
उचितस्य च यो भावस्तदौचित्यं प्रचक्षते।।”
“औचित्यविचारचर्चा” इत्यत्र ग्रन्थे औचित्यस्य पदादिसप्तविंशतिभेदान् क्षेमेन्द्रः पुरस्करोति।

उत्तराखण्डसंस्कृतविश्वविद्यालयस्य सहायकाचार्येण,कार्यक्रमसंयोजकेन डॉ. कञ्चनतिवारीमहोदयेन प्रस्ताविकोद्बोधनं प्रस्तुतम् । अत्र आध्यक्ष्यं निर्वहति संस्कृतभारतीप्रान्ताध्यक्षा डॉ. जानकीत्रिपाठिवर्या । सा स्वसम्बोधने वदति यत् संस्कृतस्य सम्प्रति देशे विदेशे च सर्वत्राऽपि प्रचारः प्रसारः महत्त्वञ्च दरीदृश्यते। व्याख्यानान्ते डॉ. दिनेशचन्द्रपाण्डेय: अतिथिभिः सह समेषां प्रतिभागिनां कातर्ज्ञ्यं प्रकटयति।कार्यक्रमस्य सञ्चालनं तकनीकिसहयोगश्च जगदीशजोशी इत्यनेन कृतः| कार्यक्रमे शास्त्राध्ययनप्रबोधनवर्गस्य संचालक: डा.दामोदरपरगांई डॉ.कुलदीपमैन्दोला, डॉ.जगदीशपाण्डेयः, संस्कृतभारत्या: कार्यकर्तारः,जिज्ञासवो विद्यार्थिनः इत्यादय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button