संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डऋषिकेश

वेदमन्त्रै: दसविधिस्नानेन सह १५० बटुकानाम् उपनयनसंस्कारः

श्रीवेदमहाविद्यालये ऋषिकेशे भगवतः हयग्रीवस्य अवतारदिवसे मुण्डनसंस्कार: आचरितोभवत्

ऋषिकेश: । श्रीवेदमहाविद्यालये ऋषिकेशे भगवतः हयग्रीवस्य अवतारदिवसस्य संस्कृतदिवसस्य च अवसरे विद्यालयस्य १५० (एकशतं पञ्चाशत्) बटुकानाम् उपनयनसंस्कारः अभवत्, प्रातः प्राभातिकयात्रा अपि अभवत्। बटुकानां मुण्डनसंस्कारः वेदमन्त्रै: सह दसविधिस्नानं चाप्यभवत्।

विद्यालये प्रबन्धक: वेदाचार्य: श्री रविन्द्रकिशोरशास्त्री एवं प्रधानाचार्य: श्री कृष्णप्रसाद-उनियाल: छात्रान् गणेशपूजनं, ऋषिपूजनं गायत्रीमंत्रसहितं यज्ञोपवीतधारणं कारितवन्त: । श्रीशास्त्रिणा कथितं यत् छात्र: वेदाध्ययनं कृत्वा स्वदैनिकजीवने परिपालयेत् । स्वामी रामसाधक: प्रबन्धक: श्री रविन्द्रशाहू स्वपूज्यपितु: पुण्यस्मृतौ छात्राणां भोजनव्यवस्थां कृतवान् ।

आचार्य: सुनीलदत्तबिजल्वाण: यज्ञोपवीतधारणस्य एवं च तस्य उपयोगिताविषये उक्तवान्। कार्यक्रमे डॉ. अजीतप्रकाशनवानी, श्री दीपकराजकोठारी, श्री विपिन-उनियाल:, श्रीमती संगीता जेठुड़ी, श्री कपिलशास्त्री एवं अभिभावका: च उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button