संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारती

राजकीय-महाविद्यालय:, शीतलाखेतम्, अल्मोड़ा एवं च संस्कृत-भारती, उत्तरांचलम् इत्यनयोः संस्थयोः संयुक्ततत्त्वावधाने संस्कृतसम्मेलनं शोभायात्रा च विभिन्ना: प्रतियोगिता:

संगणकस्य च संस्कृते: भाषा संस्कृतभाषा - डॉ0 प्रकाशचन्द्रः जांगी

।अल्मोड़ा। विश्वसंस्कृतदिवसमाचरितुं राजकीय-महाविद्यालय:, शीतलाखेतम्, अल्मोड़ा एवं च संस्कृत-भारती, उत्तरांचलम् इत्यनयोः संस्थयोः संयुक्ततत्त्वावधाने सांस्कृतिक-प्रतियोगितायाम् संस्कृत-शोभा-यात्रा संस्कृत-प्रतियोगिताः महाविद्यालयपरिसरे अभवन्। भव्यरूपेण अत्र संस्कृतसप्ताहमभिलक्ष्य संस्कृतदिवसस्य आयोजनं संस्कृतबान्धवै: विहितम्। तत्र एका विशालसंस्कृतशोभायात्रा अपि ग्रामे ग्रामे नगरे नगरे निर्गता।

अवसरेऽस्मिन् कार्यक्रमस्यास्य शुभारम्भः महाविद्यालयस्य प्राचार्येण प्रो0 ललनप्रसारवर्ममहोदयेन कृतम्। तदनन्तरम् अतिथिनां परिचयः स्वागतं च कृत्वा महाविद्यालयस्य छात्राभिः स्वागतनृत्यं प्रस्तुतम्। कार्यक्रमेऽस्मिन् विभिन्नानां संस्कृतप्रतियोगितानाम् आयोजनं चापि विहितम्।तत्र संस्कृतभाषणप्रतियोगिता, संस्कृतसमूहनृत्यप्रतियोगिता, संस्कृत-एकलगीतप्रतियोगिता, संस्कृतश्लोकोच्चारण- प्रतियोगिता इत्यादीनां प्रतियोगितानाम् आयोजनम् अभवत्। इतः परं समस्तमहाविद्यालयीयच्छात्राः विभिन्नसांस्कृतिक-कार्यक्रमाणाम् आयोजनम् कृतवन्तः। तत्रापि तैः नाटकं, गीतं, नृत्यं, गायनं च कृतम्।

सहायकाचार्यः संस्कृतभाषायाः महत्त्वविषये कार्यक्रमस्य अस्य संयोजकः डॉ0 प्रकाशचन्द्रः जांगी अवादीत् यत् संस्कृतभाषा सर्वाषां भाषाणां जननी अस्ति। संगणकस्य कृते सर्वोपयुक्ता भाषेयम्। सम्प्रति संगणकवैज्ञानिकैः कृत्रिम-बुद्धिमत्तायाः कृते इयं भाषा महत्त्वपूर्णा अस्ति इति उच्यते। तेनोक्तं यत् अस्माकं भारतीयसंस्कृतेराधारः संस्कृतभाषा एव अस्ति।

अवसरेऽस्मिन् महाविद्यालयस्य प्राचार्यः प्रो0 ललनप्रसादवर्मा, डॉ0 मंजरी जोशी, डॉ0 सीमा प्रिया, डॉ0 प्रकाशचन्द्रः जांगी, डॉ. दीपिका आर्या, डॉ0 खीमराजो जोशी, कमलबनकोटी, रमेशरामः, शोधच्छात्राः कमला खत्री, शोभा, साक्षी, प्रियंका बिष्ट इत्यादयः समुपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button