संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादूनसंस्कृत भारती

संस्कृतदिवसोपलक्ष्ये संस्कृतसप्ताहे संवाद: एवं संस्कृतकथावाचनम्।

सुभाषचन्द्रबोसछात्रावासे पूर्वमाध्यमिकविद्यालये तृतीयदिवसे संस्कृतभारत्या देहरादूने समायोजित: कार्यक्रम:।। ✓ ।।"नूनं न दूरं कालः यदा संस्कृतं जनभाषा भविष्यति"-- 'सतीशचन्द्रनौटियाल:' ।। ✓ ।।संस्कृतकथाः अस्माकं समाजस्य संस्कृते: च दर्पणं- -'डा.प्रदीपसेमवाल:'

। देहरादूनम्। संस्कृतभारतीदेहरादूनद्वारा संचालितस्य संस्कृतसप्ताहस्य तृतीये दिने नेतृसुभाषचन्द्रबोसछात्रावासे पूर्वमाध्यमिकविद्यालये संवाद: एवं संस्कृतकथावाचनं समायोजितम् । प्रधानाचार्य: श्री सतीशचन्द्रनौटियालमहोदय: , संस्कृतभारत्या: जिलामन्त्री प्रदीपसेमवाल: छात्रावासस्य अधीक्षकः कौशलकुमारः, संस्कृतभारत्याः महानगरछात्रप्रमुखः शिवानी रमोला च दीपं प्रज्ज्वाल्य शुभारम्भं कृतवन्त: ।

सभां सम्बोधयन् विद्यालयस्य प्रधानाचार्यः सतीशचन्द्रनौटियाल: अवदत् यत् संस्कृतभाषा अस्माकं सर्वासु भाषासु जीवनदात्री अस्ति। या पूर्वं वार्तालापभाषा आसीत्। अद्य पुनः एकवारं वाच्यभाषारूपेण उद्भवति । नूनं न दूरं कालः यदा संस्कृतं जनभाषा भविष्यति।

संस्कृतभारतीदेहरादूनस्य जिलामन्त्री डॉ. प्रदीपसेमवालः छात्रावासस्य छात्रान् सामान्यजनान् च संस्कृतभाषितुं प्रेरयन् अवदत् यत् अस्माकं विशालः संस्कृतकथा अस्मान् संस्कृतेन भावानाम् अभिव्यक्तिं कर्तुं प्रेरणाम् यच्छति। सरलकथानां माध्यमेन संस्कृतशिक्षणम् अतीव सुलभम् अस्ति। संस्कृतकथाः अस्माकं समाजस्य संस्कृते: च दर्पणं भवन्ति। यस्मिन् वयं अस्माकं व्यक्तित्वं द्रष्टुं शक्नुमः।

छात्रावासस्य शिक्षकः विवेकः सर्वेभ्यः धन्यवादं दत्त्वा अवदत् यत् संस्कृतं विश्वस्य प्राचीनतमा भाषा अस्ति तथा च यदा जगत् अज्ञाने आसीत् तदा भारतं संस्कृतभाषायाः साहाय्येन विश्वगुरुः आसीत्।

कार्यक्रमे संस्कृतभारत्याः छात्रप्रमुखा शिवानी रमोला गीतानि, संस्कृतकथां च पाठितवती। छात्रावासस्य छात्राः सुशांत:, अभिषेक:, कृष्ण:, आरबः स्वागतगीतं गीतवन्तः। आरव:, संदीप:, तन्मय: व साहिल: सर्वधर्मसमभावे” संस्कृतसंवादं प्रस्तुतवन्त: , अमितचौहानेन “मूर्खवानरकथा” चोक्तं च हरिओमद्वारा संस्कृते उत्तराखण्डस्य परिचय: प्रदत्त: ।

कार्यक्रमस्य संचालनं रायपुरप्रखंडसंयोजकेन धीरजबिष्टद्वारा विभिन्नगीतकथाभिस्सह सञ्जातं। अस्मिन् अवसरे संस्कृतभारत्याः महानगरमन्त्री माधवपौडेलः विभागसंयोजकः नागेन्द्रव्यासः महानगरशिक्षाप्रमुखः राजेशशर्मा महानगरकोषाध्यक्षः योगेशकुकरेती इत्यादयः अनेके कार्यकर्तारः सामाजिकजनाः च उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button