संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

संस्कृतशिक्षाविभागान्तर्गतं ‘संस्कृतायधावनम्’ हरिद्वारे ऋषिकुलत: हरिपैडीपर्यन्तं

• गंगासभाया: सहभागे धावनम् त्रिदिनांके संजायते।। ✓ ।।कार्यक्रमे राज्यस्य संस्कृतशिक्षामन्त्री डॉ. धनसिंहरावतः, हरिद्वारस्य विधायकः मदनकौशिकः, संस्कृतशिक्षानिदेशकः इत्यादयः गणमान्यजनाः उपस्थिताः भविष्यन्ति।।

।हरिद्वारम्। संस्कृतसप्ताहस्य अवसरे संस्कृतशिक्षाविभागेन हरिद्वारेण ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालयात् हरिपैडीपर्यन्तं 3 सितम्बरदिनाङ्के ‘Run for Sanskrit’ ‘संस्कृताय धावनम्’ इत्यस्य कार्यक्रमस्य आयोजनं भविष्यति। यस्मिन् हरिद्वारजनपदस्य ५०० तः अधिकाः छात्राः-शिक्षकाः संस्कृतस्य कृते धाविष्यन्ति।
संस्कृताय धावनस्य सर्वाणि सज्जतानि सम्पन्नानि।
संस्कृतम् उत्तराखण्डराज्यस्य द्वितीया राजभाषा अस्ति।प्रतिवर्षं विश्वसंस्कृतदिवसस्य अवसरे संस्कृतसप्ताहः महता उत्साहेन आचर्यते।संस्कृतविद्यालयेषु महाविद्यालयेषु च मैराथनधावनस्य आयोजनं भवति। कार्यक्रमस्य उद्देश्यं सामान्यजनं संस्कृतविषये अवगतं करणीयम् इत्यस्ति।
सहायकनिदेशकः डॉ. वाजश्रवा आर्यः अवदत् यत् हरिद्वारस्य सर्वे संस्कृतविद्यालयाः महाविद्यालयाः च अस्य कार्यक्रमस्य Run for Sanskrit कृते पूर्णतया सज्जाः सन्ति।आयोजकसमित्याः सदस्यः डॉ. नवीनपन्तः अवदत् यत् एतदर्थं गंगासभा (पञ्जीकृत) हरिद्वारः अपि संस्कृताय धावने संलग्नः अस्ति । कार्यक्रमःसहकार्यं कुर्वन् अस्ति। अस्मिन् कार्यक्रमे राज्यस्य संस्कृतशिक्षामन्त्री डॉ. धनसिंहरावतः, हरिद्वारस्य विधायकः मदनकौशिकः, संस्कृतशिक्षानिदेशकः इत्यादयः गणमान्यजनाः उपस्थिताः भविष्यन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button