संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

रक्षाबन्धनस्य पवित्रिने विभवसैनी विद्यार्थीभ्यः दुष्कार्येभ्यः दूरं स्थितिम् आग्रहं कृत्वान्

कण्वनगर्यां विद्यामन्दिरेण समाचरितं रक्षाबन्धनम्

। कोटद्वारम्।रक्षाबन्धनस्य पूर्वसंध्यायां रितेशशर्मासरस्वतीविद्यामन्दिरे इण्टर-कॉलेज-जानकीनगरकोटद्वारे कार्यक्रम: आयोजितोभवत् । यत्र कोटद्वारस्य मुख्यारक्षी-अधीक्षक: विभवसैनी उपस्थित: आसीत् । कार्यक्रमस्य उद्घाटनं मुख्यातिथि: श्रीसैनी , विद्यालयस्य प्रधाधाचार्य: मनोजकुकरेती, उपप्रधानाध्यापक: अनिलकोटनाला सरस्वत्या: समक्षे दीपप्रज्ज्वालनेन कार्यक्रमस्य उद्घाटनं कृतवन्त: । विद्यालयस्य प्रसारमाध्यमप्रभारी तथा कार्यक्रमप्रमुखः आचार्य: रोहितबलोदी इत्यनेन उक्तं यत् सर्वप्रथमं विद्यालयस्य बालिकाछात्राः छात्राणां हस्ते रक्षासूत्रं बद्ध्वा रक्षाबन्धनकार्यक्रमं मिष्टान्नं खादित्वा आचरितवन्तः। मुख्यातिथि: श्री विभवसैनी मादकपदार्थानां दुरुपयोग:, अनावधानयानचालनं , शिरस्य सुरक्षाकवचं विना वाहनचालनं मानवापरणम् आदिषु विषयेषु छात्रेभ्य: स्ववक्तव्यं प्रोक्तवान् । । रक्षाबन्धनस्य पावनदिने सः छात्रान् एतेभ्यः सर्वेभ्यः कार्येभ्यः दूरं स्थातुं आग्रहं कृतवान्। अवसरेस्मिन् राजनकुमारशर्मा, राहुलभाटिया, शिवरामबडोला, संगीता रावत:, प्रीतिबलूनी, मधुबाला नौटियाल: आदय: उपस्थिता: आसन् । रक्षाबन्धनस्य पावनदिने विभवसैनी छात्रेभ्य: दुष्कार्येभ्यः दूरं स्थातुम् आग्रहं कृतवान् । *कण्वनगर्यां विद्यामन्दिरेण समाचरितं रक्षाबन्धनम् वार्ताहर:-कुलदीपमैन्दोला। कोटद्वारम्। रक्षाबन्धनस्य पूर्वसंध्यायां रितेशशर्मासरस्वतीविद्यामन्दिरे इण्टर-कॉलेज-जानकीनगरकोटद्वारे कार्यक्रम: आयोजितोभवत् । यत्र कोटद्वारस्य मुख्यारक्षी-अधीक्षक: विभवसैनी उपस्थित: आसीत् । कार्यक्रमस्य उद्घाटनं मुख्यातिथि: श्रीसैनी , विद्यालयस्य प्रधाधाचार्य: मनोजकुकरेती, उपप्रधानाध्यापक: अनिलकोटनाला सरस्वत्या: समक्षे दीपप्रज्ज्वालनेन कार्यक्रमस्य उद्घाटनं कृतवन्त: । विद्यालयस्य प्रसारमाध्यमप्रभारी तथा कार्यक्रमप्रमुखः आचार्य: रोहितबलोदी इत्यनेन उक्तं यत् सर्वप्रथमं विद्यालयस्य बालिकाछात्राः छात्राणां हस्ते रक्षासूत्रं बद्ध्वा रक्षाबन्धनकार्यक्रमं मिष्टान्नं खादित्वा आचरितवन्तः। मुख्यातिथि: श्री विभवसैनी मादकपदार्थानां दुरुपयोग:, अनावधानयानचालनं , शिरस्य सुरक्षाकवचं विना वाहनचालनं मानवापरणम् आदिषु विषयेषु छात्रेभ्य: स्ववक्तव्यं प्रोक्तवान् । । रक्षाबन्धनस्य पावनदिने सः छात्रान् एतेभ्यः सर्वेभ्यः कार्येभ्यः दूरं स्थातुं आग्रहं कृतवान्। अवसरेस्मिन् राजनकुमारशर्मा, राहुलभाटिया, शिवरामबडोला, संगीता रावत:, प्रीतिबलूनी, मधुबाला नौटियाल: आदय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button