उत्तराखण्डदेहरादूनसंस्कृत भारती

संस्कृतभारत्या व्याख्यानकार्यक्रमे ”संस्कृतं किमर्थम्”महत्वं बोधितं

जीवनस्य प्रत्येकपक्षे सत्यं यथार्थं च ज्ञानं केवलम् अस्माकं प्राचीनधर्मग्रन्थेषु एव निहितम् अस्ति -"नवीनजसोला"

।देहरादूनम् ।बुधवासरे संस्कृतभारतीदेहरादूनद्वारा चालितस्य संस्कृतसप्ताहस्य चतुर्थे दिने श्रीगुरुगोरक्षनाथवीरगोगेन देहरादूनस्य माडीखुदबुदामोहल्लाक्षेत्रे व्याख्यानकार्यक्रमः संस्कृतं किमर्थम् इति आयोजित:।

कार्यक्रमस्य मुख्यवक्ता संस्कृतभारतीसहविभागसंयोजक: डॉ. नवीनजसोला स्ववक्तव्ये प्रत्येक व्यक्ते: संस्कृतभाषायाः आवश्यकता किमर्थम् इति व्याख्यातवान्। सः उक्तवान् यत् सर्वोच्चमूल्यं जीवनं प्रति सरलसंस्कृतजीवनं जीवितुं ग्रहणं आवश्यकम् वेदधर्मशास्त्राश्रयः तानि च शास्त्राणि ज्ञातुं च एतदर्थं संस्कृतभाषाज्ञानं भवितुमर्हति। योगद्वारा जीवनं व्यवस्थितं कर्तुं वा, आयुर्वेदद्वारा जीवनं स्वस्थं स्थापयितुं वा, जीवनस्य प्रत्येकपक्षे सत्यं यथार्थं च ज्ञानं केवलम् अस्माकं प्राचीनधर्मग्रन्थेषु एव निहितम् अस्ति, अतः संस्कृतभाषा अस्माकं कृते अत्यावश्यकी अस्ति।

सामान्यजनं संस्कृतभाषितुं प्रेरयन् संस्कृतभारतीदेहरादूनस्य जिलामन्त्री डॉ. प्रदीपसेमवालः अवदत् यत् अस्माकं विशालं संस्कृतसाहित्यं संस्कृतेन भावानाम् अभिव्यक्तिं कर्तुं प्रेरणाम् यच्छति।

अस्मिन् अवसरे संस्कृतभारत्याः महानगरमन्त्री माधवपौडेलः, विभागसंयोजक: नागेन्द्रव्यासः, रायपुरखण्डसंयोजकः धीरजविष्टः, महानगरसंपर्कप्रमुखः विकासभट्टः,महानगरशिक्षाप्रमुखः राजेशशर्मा,छात्रप्रमुखः शिवानी रमोला,महानगरकोषाध्यक्षः योगेशकुकरेती इत्यादयः अनेके कार्यकर्तारः सामाजिकजनाः च उपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button