संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

ज्ञानकुम्भः कुम्भनगरे हरिद्वारे भविष्यति

।हरिद्वारं। शिक्षासंस्कृति-उत्थानन्यासस्य तथा देवसंस्कृतिविश्वविद्यालयस्य हरिद्वारस्य संयुक्ताश्रयेण सितम्बरमासस्य तृतीयसप्ताहे ज्ञानकुम्भस्य आयोजनं भविष्यति। ज्ञानकुम्भस्य आयोजनार्थं न्यासस्य कार्यकर्तृभिः विश्वविद्यालयस्य अधिकारिभिः सह एका सभा आयोजिता । यत्र शिक्षासंस्कृति-उत्थानन्यासस्य राष्ट्रियसचिवः डॉ. अतुलभ्रात: कोठारी, देवसंस्कृतिविश्वविद्यालयस्य प्रो. कुलपतिः डॉ. चिन्मयपाण्ड्या च उपस्थितौ अभवताम् । सभायां निर्णयः अभवत् यत् सितम्बरमासस्य तृतीयसप्ताहे देशस्य विद्वांसः अपि च विश्वविद्यालयेषु शैक्षणिकक्षेत्रेषु च कार्यं कुर्वतां जनानाम् एकस्मिन् मञ्चे एकत्र आनयन् राष्ट्रियशिक्षानीतेः कार्यान्वयनार्थं ज्ञानकुम्भस्य आयोजनं भविष्यति। विद्यालयशिक्षा उच्चशिक्षा चात्र निर्णये भविष्यति।

सभां सम्बोधयन् न्यासस्य राष्ट्रियसचिवः डॉ. अतुलभ्रात: कोठारी इत्यनेन उक्तं यत् यदि समाजं राष्ट्रं च परिवर्तयितव्यं तर्हि शिक्षायां भारतीयकरणं मूल्यशिक्षां च प्रदातुं प्रवृत्ता भविष्यति । वर्तमाने युवाचरित्रनिर्माणे कार्यकरणस्य आवश्यकता वर्तते। तै: प्रोक्तं यत् भारतीयज्ञानरम्परायां शिक्षायां संस्काराणां च चरित्रनिर्माणस्य चिन्तनम् आसीत् परञ्च आधुनिकसमये चरित्रस्य संस्कारस्य च नैतिकमूल्यानाम् अभाव: सर्वत्र दृश्यते । संस्कारितं जीवनं जीवन्त: शिक्षका: अभिभावका: छात्रा: अद्यत्वे दुर्लभाः दृश्यन्ते। समाजसमक्षे संचेतितविषयोयं वर्तते।

अस्मिन् अवसरे न्यासकार्यकर्तृभिः देवसंस्कृतिविश्वविद्यालयेन स्वाश्रयमाश्रितानि परियोजनानि दृष्टानि। अस्मिन् अवसरे न्यासस्य क्षेत्रीयसङ्गठनमन्त्री जाग्रामः, रजिस्ट्रार् देवसंस्कृतिविश्वविद्यालयः, न्यासस्य प्रदेशसंयोजकः डा. मुकेश:, डॉ. आनंद, डॉ. हिमांशुपण्डित:, मनोजजखमोला आदय: कार्यकर्तार: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button