नैनीताल

अनुसूचितजातीयविद्यार्थिनां कृते प्रशासनिक-सेवाप्रशिक्षणस्य निःशुल्कातिरिक्तशिक्षणस्य उद्घाटनम्।

तन्मयतया प्रशासनिकसेवायाः सिद्धये अभ्यासं कुर्वन्तु विद्यार्थिनः — निदेशकः डॉ. सन्दीपतिवारी।

रामनगरम्। कुलदीपमैन्दोला। राजकीय-स्नातकोत्तर-महाविद्यालये रामनगरे अनुसूचितजातीयविद्यार्थिनां कृते प्रशासनिक-सेवापरीक्षाप्रसिद्धये निःशुल्कातिरिक्तशिक्षण-
प्रशिक्षणकेन्द्रस्य शुभारम्भः अभवत्। अस्य कार्यक्रमस्य मुख्यातिथिः समाजकल्याणविभागस्य निदेशकः डॉ. सन्दीप तिवारी, कार्यक्रमाध्यक्षः महाविद्यालयस्य प्राचार्यः प्रो. एम.सी. पाण्डे, तथा जिला-समाजकल्याण-अधिकारी नैनीताल-जनपदस्य श्री विश्वनाथगौतम:, उपनिदेशकः श्री वासुदेव: आर्या, सहायक-जिला-अल्पसंख्यक-अधिकारी श्री जसविन्दरश्च आसन्। सर्वैः अतिथिभिः संयुक्तरूपेण वाग्देवी-प्रतिमायाः पुरतः दीपप्रज्वलनं कृत्वा कार्यक्रमस्य शुभारम्भः कृतः।

प्रशिक्षणकेन्द्रस्य समन्वयकः डॉ. नरेशकुमारः प्रस्ताविकां प्रस्तूय अवदत् यत् शासनस्य आदेशेन रामनगर-महाविद्यालयः अनुसूचितजातीयविद्यार्थिनां कृते निःशुल्क-प्रशासनिक-सेवाप्रशिक्षणस्य केन्द्ररूपेण चयनितः अस्ति।

मुख्यतिथिः डॉ. सन्दीपतिवारी स्वीयभाषणे विद्यार्थिनः सम्बोधयन् अवदत् यत् प्रशासनिकसेवायाः माध्यमेन राज्ये राष्ट्रे च सेवाकरणस्य स्वर्णिमावसरः लभ्यते। अस्याः सेवाद्वारा विद्यार्थिनः न केवलं स्वं भविष्यं उज्ज्वलं कुर्वन्ति, अपि तु राज्यस्य राष्ट्रस्य च निष्ठया दक्षतया च सेवां कर्तुं शक्नुवन्ति। अतः विद्यार्थिभिः तन्मयतया अनुशासनपूर्वकं च प्रशासनिक-सेवापरीक्षायाः सिद्धता कर्तव्या।
तैः अपि उक्तं यत् समाजकल्याणविभागस्य एषा महत्त्वपूर्णा योजना उत्तराखण्डराज्ये केवलं अस्मिन् एकस्मिन् एव राजकीयमहाविद्यालये सञ्चाल्यते। अस्मिन् प्रशिक्षणकेन्द्रे प्रशासनिक-सेवायाः प्रारम्भिकपरीक्षायाः कृते छात्र-छात्राभ्यां निःशुल्ककातिरिक्तशिक्षण-प्रशिक्षणं प्रदीयते। अयं केन्द्रः समाजकल्याणविभागेन वित्तपोषितः भविष्यति तथा प्रशिक्षणार्थं बाह्यविद्वांसः विषयविशेषज्ञाश्च आमन्त्रिताः भविष्यन्ति।

कार्यक्रमस्य अध्यक्षतां वहन् प्राचार्यः प्रो. एम.सी. पाण्डे उक्तवान् यत् एषा योजना रामनगर-क्षेत्रस्य कृते महत्त्वपूर्णा उपलब्धिः अस्ति, यस्य प्रत्यक्षलाभः विद्यार्थिनां भविष्यनिर्माणे दृश्यते। अधुना रामनगरक्षेत्रस्य विद्यार्थिनः स्वनगरं स्थित्वा एव प्रशासनिक-सेवापरीक्षायाः सम्यक् सिद्धतां कर्तुं शक्नुवन्ति।
प्राचार्य: डॉ. नरेशकुमारः अस्य केन्द्रस्य समन्वयकरूपेण तथा डॉ. अलका सह-समन्वयकरूपेण नियुक्तौ स्त:।

जिला-समाजकल्याण-अधिकारी श्री विश्वनाथगौतमः सर्वविद्यार्थिनः आह्वयन् उक्तवान् यत् ते प्रशिक्षणकेन्द्रस्य पूर्णलाभं गृहीत्वा एकाग्रचित्तेन अभ्यासं कुर्वन्तु। उपनिदेशकः श्री वासुदेव: आर्या विद्यार्थिनां उज्ज्वलभविष्यनिर्माणे अस्य योजनायाः महत्त्वं प्रतिपादितवान्। अल्पसंख्यक-अधिकारी श्री जसविन्दरः अपि विद्यार्थिनां मंगलमय-भविष्यस्य कामनां कृतवान्। कार्यक्रमस्य संचालनं डॉ. अलकया कृतं, धन्यवादज्ञापनं च डॉ. नरेशकुमारः अकरोत्। अस्मिन् अवसरॆ छात्र-छात्राभिः सह सम्पूर्णं महाविद्यालय-परिवारं उपस्थितम् आसीत्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button