उत्तराखण्डसचिवालये संस्कृतसम्भाषणशिविरस्य शुभारम्भ: , संस्कृतशिक्षायाः नवं आयामं लप्स्यते
🔵 मुख्यमन्त्रिणा धामीवर्येण उद्घाटनं कृतं । 🔵उत्तराखण्डराज्यस्य माननीयमन्त्री डा. धनसिंहरावतः, श्रीसतपालमहाराजः, श्रीगणेशदत्तजोशी श्रीसुबोधुनियालः, मुख्यसचिवः श्रीआनन्दवर्धनः, सचिवः श्रीविनयशंकरपाण्डेयः चैते संस्कृतभाषायाम् अभ्यासं कृतवन्तः।

उत्तराखण्डराज्यस्य संस्कृतशिक्षाविभागस्य उत्तराखण्ड-संस्कृत-अकादम्याः च हरिद्वारनगर्याः संयुक्ततत्त्वावधानस्य अन्तर्गतं उत्तराखण्डसचिवालये देहरादूने संस्कृतसम्भाषणशिविरस्य शुभारम्भः माननीयमुख्यमन्त्रिणा श्रीपुष्करसिंहधामीवर्येण कृत: ।
शिविरस्य उद्घाटनसन्धौ उत्तराखण्डराज्यस्य माननीयमन्त्री डा. धनसिंहरावतः, श्रीसतपालमहाराजः, श्रीगणेशदत्तजोशी श्रीसुबोधुनियालः, मुख्यसचिवः श्रीआनन्दवर्धनः, सचिवः श्रीविनयशंकरपाण्डेयः चैते संस्कृतभाषायाम् अभ्यासं कृतवन्तः।
एतत् संस्कृतसम्भाषणशिविरम् २९ मे २०२५ दिनांकतः आरभ्य १२ जून २०२५ पर्यन्तं प्रतिदिनं प्रातः १.३० वादनात् अपराह्ण २.३० वादनपर्यन्तं आयोज्यते।
संस्कृतशिक्षासचिवेन श्रीदीपकगैरोलामहोदयेन उद्घाटनवक्तव्ये उक्तं यत् – “संस्कृतभाषा भारतीयभाषाणां, संस्कृतेः, सभ्यतायाः, संस्कारस्य च ज्ञानविज्ञानस्य च मूलाधारः अस्ति। एषः प्रयासः संस्कृतभाषायाः जनभाषाप्राप्तये एकं महत्वपूर्णं सोपानम् अस्ति। अनेन प्रकारेण आयोज्यमानैः शिविरैः समाजस्य विविधक्षेत्रेषु वर्तमानस्य जनतापि संस्कृतं बोधयितुं शिक्षयितुं च शक्नोति।”
उत्तराखण्डसंस्कृत-अकादम्याः सचिवः डा. वाजश्रवा आर्यमहोदयः अवदत् यत् – “संस्कृतस्य प्रचारप्रसाराय अकादम्या विविधकार्याणि क्रियन्ते। एतत् शिविरं संस्कृतभाषायाः जनभाषाप्राप्तये विद्यते ।
शिविरे शासनस्य विविधविभागेषु कार्यरताः अधिकारी-कर्मचारीगणः उत्साहेन सहभागित्वं कुर्वन्ति। शिविरस्य संचालनं प्रशिक्षणं च अकादम्याः शोधाधिकृतः डॉ हरीशचन्द्रगुरुराणिना प्रदत्तम्। शिविरप्रशिक्षकौ डॉ. महेशचन्द्रमासीवालः धीरजमैठाणी च प्रशिक्षणे सहयोगं कृतवन्तौ।
अस्मिन् कार्यक्रमे शासनस्य संस्कृतशिक्षायाः अनुसचिवा गीता शरदवर्या अनुभागाधिकारी तरुणधंजीवालः, सहायकनिदेशकः डा. चण्डीप्रसादघिल्डियालः, केन्द्रीयाधिकारी सच्चिदानन्दबौडै च सचिवालयस्य विभिन्नविभागेषु कार्यरताः अधिकारिण: कर्मचारिगणः च संस्कृतप्रेमिणः सम्भाषणं कुर्वन्त: उपस्थिता: आसन्।