संस्कृत भारतीहरियाणा

हरियाणाप्रदेशे संस्कृतभारत्या: आवासीयवर्ग: नारायणगढे, अम्बालायां १३ जून २०२५ अपराह्णतः २१ जून २०२५ प्रातः पर्यन्तं

प्रेषकः – राजवीरकौशिकः।
संस्कृतभारती, हरियाणा (न्यासः) द्वारा प्रतिवर्षम् आवासीयप्रबोधनवर्गः आयोज्यते। एतस्मिन् वर्गे दैनन्दिनसंस्कृतसम्भाषणस्य व्यावहारिकशिक्षणं प्रायोगिकव्याकरणस्य च अभ्यासः भविष्यति। एषः वर्गः श्रीमद्भगवद्गीता वरिष्ठमाध्यमिकविद्यालये, नारायणगढे, अम्बालायां १३ जून २०२५ अपराह्णतः २१ जून २०२५ प्रातः पर्यन्तं भविष्यति। वर्गे अपेक्षिताः सन्ति – दशमी उत्तीर्णाः, संस्कृतसम्भाषण-इच्छुकाः सामाजिकाः छात्राश्च।
कृपया सम्पर्कं कुर्वन्तु – 9416684295, 9416028372, 8219427203

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"
Back to top button