देहली

संस्कृतिस्रोतश्च प्रशिक्षणस्य केन्द्रीयसंस्थायाः देहल्याः अभिमुखीकरणपाठ्यक्रमे उत्तराखण्डदलस्य गौरवमयी उपलब्धिः ।

देहली । संस्कृतिस्रोतश्च प्रशिक्षणस्य केन्द्रीयसंस्थायाः (CCRT) देहल्यां आयोजिते एकविंशतिदिवसीये अभिमुखीकरणपाठ्यक्रमे उत्तराखण्डस्य शिक्षकदलम् आरभ्य समापनपर्यन्तं सर्वेषाम् आकर्षणस्य प्रशंसायाश्च केन्द्रं बभूव।
अस्मिन् पाठ्यक्रमे भारतस्य षोडशराज्येभ्यः आगताः कुलम् ११५ शिक्षकाः सहभागित्वम् अकुर्वन्। कार्यशालायाः मुख्योद्देश्यः आसीत्—भारतीयायाः विराट-सांस्कृतिकपरम्परायाः परिचयप्रदानं तथा आधुनिकशिक्षां भारतीयसंस्कृत्या, कलया च समन्वय:, विद्यार्थिनां सर्वाङ्गीणविकासस्य मार्गदर्शनम्।

प्रथमदिवसादेव उत्तराखण्डदलस्य शिक्षकाः स्वकीयया पारम्परिकवेशभूषया, मधुरसंगीतप्रस्तुत्या, भाषाकौशलेन च अन्यराज्येभ्यः आगतानां शिक्षकेषु विशेषमाकर्षणं समुपाजनयन्। प्रतिदिनं आयोजितेषु विविधराज्यानां सांस्कृतिककार्यक्रमेषु अपि उत्तराखण्डदलम् उदारभावेन सर्वेभ्यः सहयोगम् अददात्। दलस्य नेतृत्वं कुर्वन् दिनेशचन्द्रपाठकः अवदत्—“अस्माकं कृते महदिदं गौरवम् आसीत् यत् अन्यराज्यानां शिक्षकाः अपि स्वकार्यक्रमाणां सफलतायै अस्माकं सहयोगम् अभ्यर्थयन्त।”

सांस्कृतिककार्यक्रममालायां उत्तराखण्डदलस्य सदस्यैः सीसीआरटी इत्यस्य महामञ्चे ‘नन्दाराजजात’ इति लोकनाट्यस्य भावपूर्णं मंचनं कृतम्। अस्य अनुपमप्रस्तुतेः दर्शनमात्रेण दर्शकाः भावविभोराः अभवन् तथा भाषासंगीतम् अतिक्रम्य सर्वैः मुक्तकण्ठेन प्रशंसा कृताऽभूत्।

कार्यशालायाः सम्पूर्णावधौ दिनेशचन्द्रपाठकः, हिमांशुजोशी, अशोककुमारः, जयन्तकुमारः च सांगीतिकपक्षं सम्यक् असम्भालयन्। अञ्जलीनेगी, रिङ्कीसिंहः, रीना, सृष्टिबोरा च कला-नृत्ययोः स्वप्रतिभां प्रदर्शितवन्त्यः। हरीशसती तथा अखिलेशघिल्डियालः उत्कृष्टेन मञ्चसञ्चालनेन सर्वान् प्रभावितवन्तौ। तथा केशवबिजल्वाणः, लोकेशसिंहः, अनिलकुमारत्रिपाठी, अरुणसेमल्टी, मनवीरभारती च नेपथ्ये तथा मञ्चे स्वकीयसर्वशैल्या विशिष्टां छविं प्रसारितवन्तः।
समापनदिने भारतस्य प्रादेशिकभाषाणां गीतानि प्रस्तुतानि, यस्मिन् उत्तराखण्डदलस्य प्रमुखा भूमिका आसीत्। सीसीआरटी-संस्थायाः उपनिदेशकेन अपि मञ्चतः उत्तराखण्डदलस्य प्रस्तुतेः भूरिशः प्रशंसा कृता।
समापनसमारोहे सर्वे शिक्षकाः संकल्पम् अकुर्वन् यत् कार्यशालायां अधीतं भारतीयसंगीतं, चित्रकला, शिल्पकला तथा प्राचीनसभ्यतायाः ज्ञानं स्वविद्यालयेषु विद्यार्थिभ्यः अवश्यम् हस्तान्तरयिष्यन्ति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button