संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

मानवमात्रस्य पथप्रदर्शनं करोति वाल्मीकिरामायणं

जनपददेहरादूने उत्तराखण्डसंस्कृत-अकादमीद्वारा आयोजितायां अन्तर्जालव्याख्यानमालायां भारतस्य प्रसिद्धाः विद्वान्वक्तारः ‘मानवजीवनस्य आधारभूतं पुरुषार्थचतुष्ट्यम्’ इत्यस्मिन् विषये स्वव्याख्यानं प्रस्तुतवन्तः।
मुख्यवक्तृत्वेन श्रीलालबहादुरशास्त्री- केन्द्रीयसंस्कृतविश्वविद्यालयस्य साहित्यविभागस्य प्राध्यापकः डॉ.धर्मानन्दरोतः अवदत् यत् रामायणे जीवानां सर्वतोन्मुखकल्याणस्य सूत्राणि सन्ति। सहवक्तारूपेण जगजीवनकालेज-आरा-भोजपुरेण सह सम्बद्धः डॉ. सत्येन्द्रपाण्डेयः अवदत् यत् आदर्शजीवनस्य प्रेरणा रामायणात् एव प्राप्यते। अवश्यम् अस्मिन् धर्मादिचतुर्णां प्रयत्नानाम् समन्वयः विविधप्रसङ्गेषु दृश्यते। सारस्वतातिथिरूपेण अल्मोडा-शीतलखेतस्य राजकीयमहाविद्यालयस्य संस्कृतिविभागस्य सहायकप्रोफेसरः डॉ. प्रकाशचन्द्रजाङ्गी इत्यनेन अपि स्वविचाराः प्रस्तुताः।
मुख्यातिथि:, प्रसिद्धकथाकार: श्री शिवरामभट्ट: अपि स्वशुभकामनां प्रकटितवान् । कार्यक्रमस्य अध्यक्षः प्रसिद्धः साहित्यकारः भगवन्दासादर्शकेन्द्रीयसंस्कृतमहाविद्यालयस्य साहित्यविभागस्य प्राध्यापकः प्रसिद्धः साहित्यकारः डॉ. निरञ्जनमिश्रः रामायणस्य रामं लक्ष्मणं भरतं शत्रुघ्नं मुख्यपात्रान् चतुर्पुरुषार्थप्रतीकं मत्वा तेषामादर्शानुकरणाय प्रोक्तवान्।

राज्यसंयोजकः डॉ. हरीशगुरुरानी उत्तराखण्डसंस्कृताकादम्याः व्याख्यानमालायां तथा संस्कृतस्य संस्कृते: च प्रचारप्रसारप्रवर्धनसम्बद्धानां अन्येषां सर्वेषां योजनानां विषये प्रेक्षकान् सूचितवान्। आभासीव्याख्यानगोष्ठ्या: तकनीकीसमन्वय: जिलासहसंयोजक: डॉ. प्रेमप्रकाशनैनवालद्वारा अभवत्।

कार्यक्रमस्य संचालनं जनपदसंयोजक: डॉ. नवीनजसोला विहितवान् । अवसरेस्मिन् डॉ. हेमचन्द्रबेलवाल:, डॉ. आनंदजोशी, डॉ. प्रदीपसेमवाल:, डॉ. प्रकाशचंद्रपंत:, डॉ. विवेकानंदभट्ट:, डॉ. आशीष:, डॉ. अर्चना, राकेशपन्त: आदय: विभिन्नविषयेभ्य: 50 त: अधिकविशिष्टदर्शका: अतिथय: डॉ. रीता, डॉ. गोकुल: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button