संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

जगदीशचन्द्रबोसस्य जन्मदिवसोपलक्ष्ये विज्ञानप्रदर्शनी-प्रतियोगिताया: आयोजनं

महावैज्ञानिकस्य जगदीशचन्द्रबोसस्य जन्मदिवसावसरे रितेशशर्मासरस्वतीविद्यामंदिरे जानकीनगरे कण्वनगरीकोटद्वारे अन्तर्विद्यालये विज्ञानप्रदर्शनीप्रतियोगिताया: आयोजनं सञ्जातं । कार्यक्रमस्य उद्घाटने विद्यालयस्य उपप्राचार्य: अनिलकोटनाला निर्णायक: एवं विशेषातिथि:, राजकीयस्नातकोत्तरमहाविद्यालयस्य भौतिकीसहायक: प्राध्यापक: डॉ.डी.एस.चौहान:, रसायनविज्ञानस्य सहायक: प्राध्यापक: डॉ० सुरेशकुमार:, जीवविज्ञानस्य प्रवक्ता मनीषमधवाल: दीपं प्रज्ज्वाल्य सरस्वतीमातुः पुरतः पुष्पार्पणं कृतवन्त: ।

विद्यालयस्य विज्ञान-प्रौद्योगिकीविभागस्य अध्यक्षः राहुलभाटिया इत्यनेन उक्तं यत् कार्यक्रमस्य आयोजनं कनिष्ठ-वरिष्ठयोः वर्ग: कृतम् आसीत्, प्रत्येकस्मिन् खण्डे छात्रै: कार्यरतपरियोजना अकार्यशीलपरियोजना च प्रदर्शिता । सः अवदत् यत् अस्मिन् अन्तर्विद्यालयविज्ञानप्रदर्शनस्पर्धायां नगरस्य १५ विद्यालयाः भागं गृहीतवन्तः। प्रत्येकं सहभागी छात्रः नवीनतायाः नूतनप्रौद्योगिक्याः च आधारेण नवीनविज्ञानप्रतिमानं परियोजना च प्रदर्शितवान्।

वरिष्ठवर्गस्य कार्यशील-आदर्श-परियोजना-प्रतियोगितायां ज्ञानभारती- जनता-विद्यालय: प्रथम:, आर्य-कन्या-इण्टर-कॉलेज इति द्वितीय:, श्री सिद्धबली-पब्लिक-स्कूल इति तृतीय: आसन् । कनिष्ठवर्गे कार्यशीलादर्श-परियोजना-प्रतियोगितायां ज्ञानभारती -पब्लिक-स्कूल इति प्रथमस्थानं, श्रीसिद्धबलीपब्लिकस्कूल इति द्वितीयस्थानं तथा ज्ञानभारती-पब्लिक-स्कूल इति तृतीयस्थानं प्राप्तवन्त: ।

कार्यपरियोजनाया: प्रदर्शनीप्रतियोगितायां श्री गुरुरामरायपब्लिकस्कूल इति दलं कनिष्ठवर्गे प्रथम: च द्वितीय: एवं डी-ए-वी-पब्लिक-स्कूल दलमिति तृतीय: आसन् । वरिष्ठवर्गस्य कार्यप्रारूपे एवं प्रदर्शनीप्रतियोगितायां ज्ञानभारतीपब्लिकस्कूल इति प्रथम: , श्री गुरुरामराय: द्वितीय: तथा डी-ए-वी-पब्लिक-स्कूल इति तृतीय: आसन् । एतदतिरिक्तं सर्वेभ्यः विजेतृभ्यः सहभागिभ्यः च छात्रेभ्यः प्रमाणपत्राणि पुरस्काराणि च प्रदत्तानि।

अवसरेस्मिन् रोहितबलोदी, संगीता रावत:, राजनकुमारशर्मा, गौरव: ब्रोकोटी, भूपेन्द्रसिंह:, राकेशचमोली, अनिलभटनागर:, श्रुतिमैन्दोला, संगीता कुकशाल: , सरोजनेगी, मोहनसिंह:, शिवरामबडोला, मधुबाला नौटियाल: आदय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button