संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

उत्तरप्रदेशे षोडशगुणाधिकं वेगेन भविष्यति रेलसम्पर्कस्य विकासः

योगिनः विकासस्य, सम्पर्कस्य च प्रतिरूपस्य कृते प्राप्यते केन्द्रसर्वकारस्य पूर्णसमर्थनम्

• केन्द्रसर्वकारेण रेलविभागस्य अर्थसङ्कल्पे उत्तरप्रदेशाय दत्तः 2009-14तमस्य वर्षस्य अपेक्षया षोडशगुणाधिकम् अर्थसङ्कल्पः

• उत्तरप्रदेशेन रेलविभागस्य अर्थसङ्कल्पे प्राप्तानि उत्तरप्रदेशाय 17,507कोटिरूप्यकाणि, 2009-14तमे वर्षे 1,109कोटिरूप्यकाणि प्राप्तानि

लखनऊ । उत्तरप्रदेशस्य योगिसर्वकारः यया द्रुतगत्या विकासमार्गे अग्रे गच्छति, तस्मिन् तस्मै केन्द्रसर्वकाराद् अपि पूर्णसमर्थनं प्राप्यते । केन्द्रराज्यसर्वकारैः उत्तरप्रदेशस्य सम्पर्कम् उत्तमं कर्तुं प्रवृत्तः अस्ति अपि च अस्मिन् प्रयासे अस्मिन् समये रेलविभागस्य अर्थसङ्कल्पे उत्तरप्रदेशाय 2009-14तमस्य वर्षस्य अपेक्षया षोडशगुणाधिकम् अर्थसङ्कल्पः दत्तः अस्ति। 2009-14तमे वर्षमध्ये यदा रेलविभागस्य अर्थसङ्कल्पे उत्तरप्रदेशस्य भागः केवलं 1,109कोटिरूप्यकाणि आसीत्, तदा मोदीसर्वकारेण उत्तरप्रदेशाय षोडशगुणाधिकम् अर्थात् केवलं 2022-23तमे वर्षे 17,507कोटिरूप्यकाणाम् अर्थसङ्कल्पः दत्तः । उल्लेखनीयं यत् अस्मिन् समये केन्द्रसर्वकारेण रेलमार्गस्य कृते 2.4लक्षकोटिरूप्यकाणां सर्वोच्चः अर्थसङ्कल्पः घोषितः । रेलमन्त्रालयस्य अनुसारं 2013-14तमस्य वर्षस्य अर्थसङ्कल्पस्य नवगुणाधिकम् अस्ति अयम् अर्थसङ्कल्पः ।

“नूतनरेखायाः माध्यमेन अनेकैः राज्यैः सह सम्बद्धः भविष्यति उत्तरप्रदेशः”

उत्तरप्रदेशस्य योगिसर्वकारः आधारभूतसंरचनायाः, सम्पर्कस्य च दिशि द्रुतगत्या कार्यं कुर्वन् अस्ति। सम्प्रति राज्ये त्रयशीतिः परियोजनानाम् अन्तर्गतं 7143किलोमीटरमितं दीर्घस्य नूतनरेखायाः कार्यं प्रचलति, यस्मिन् प्रायः चतुर्नवतिसहस्रकोटिरूप्यकाणि व्यय्यन्ते । यत्र, 3831किलोमीटरमितं दीर्घस्य रेलमार्गस्य कृते पञ्चपञ्चाशत् सर्वेक्षणं कर्तव्यम् अस्ति । तस्मिन् एव काले उत्तरप्रदेशम् अन्यराज्यैः सह सम्बद्धं कर्तुं नूतनरेखायाः सम्बद्धासु परियोजनासु एकः ललितपुर-सतना, रीवा-सिंरौली, महोबा-खजुराहो च अस्ति, यस्मिन् सप्तशतकोटिरूप्यकाणि व्ययितानि भविष्यन्ति । तथैव बहराइच-श्रावस्ती-बलरामपुर-तुलसीपुर-रेखायां 390कोटिरूप्यकाणि व्ययितानि भविष्यन्ति । 2023-24मध्ये ऊर्जावीथीकायाः कृते नवीनरेखायाः कृते 284कोटिः, आदिवासीगौरववीथीकायाः कृते 284कोटिः (छत्रम् 23-24), सहजनवा-दोहरीघाटस्य कृते 205कोटिः, देवबन्दस्य (मुजफ्फरनगरस्य)-रूड़की, मऊ–गाजीपुर–तारीघाटस्य कृते 200कोटिः, छत्रपरियोजनाय विंशतिकोटिः, आनन्दनगर-घुगली-इत्याभ्यां विंशतिकोटिः, गोरखपुरमार्गेण पडरौना-कुशीनगराय दशकोटिः, मेरठ-पानीपतस्य त्रिंशतलक्षं व्ययितव्यम् अस्ति ।

“अनेकस्थानानां मध्ये रेलपट्टिकानां विस्तारः भविष्यति”

रेलपट्टिकानां विस्तारम् उद्देश्य अपि प्रदेशे बहु कार्यं क्रियते । एतेन माध्यमेन लघुरेलमार्गाः बृहत् रेलमार्गेषु परिवर्तिताः । एतेषु मथुरा-वृन्दावनयोः मध्ये रेलमार्गे शतकोटिः, लखनऊ–पीलभीतमार्गद्वारा सीतापुर–लखीमपुर जनपदयोः शतकोटिः, बहराइच-मैलानी–मुख्यमार्गे पञ्चाशतकोटिः, इन्दारा-दोहरीघाटयोः कृते पञ्चत्रिंशतकोटिः, पीलीभीत-शाहजहांपुरयोः त्रिकोटिः अपि च कानपुर-कासगञ्ज-मथुरा–चेत्यादीनां रेलमार्गे पञ्चाशतलक्षरुप्यकाणि व्ययितानि भविष्यन्ति।

“उत्तरप्रदेशस्य सम्पर्के अभवत् महत् परिवर्तनम्”

प्रदेशेन विगतसमये तीव्रतया सम्पर्कक्षेत्रे बहु कार्यं कृतम् अस्ति । 2017तमं वर्षतः पूर्वं राज्ये द्वे विमानस्थानके आस्ताम्, अद्य नवविमानस्थानकानि क्रियाशीलानि अपि च दशविमानस्थानकेषु च कार्यं प्रचलति । उत्तमसम्पर्काय पूर्वोत्तरप्रदेशे पूर्वाञ्चल–एक्सप्रेसमार्गः अस्ति तु बुन्देलखण्डे बुण्डेलखण्ड- एक्सप्रेसमार्गः च अस्ति । पूर्वपश्चिमयोः उत्तरप्रदेशस्य सम्पर्काय गङ्गा–एक्सप्रेसमार्गस्य निर्माणं क्रियते । राष्ट्रियराजधान्या सह उत्तरप्रदेशं सम्बद्धं कर्तुं यमुना–आगरा–एक्सप्रेमार्गः अस्ति । उत्तरप्रदेश-नेपाल-देशयोः सीमान्तराज्ययोः सह चतुर्वीथीमार्गस्य सम्पर्कः अस्ति, राज्यस्य सर्वाणि मण्डलानि तु चतुर्वीथीमार्गेण लखनऊ–जनपदेन सह सम्बद्धानि सन्ति । पञ्चनगरेषु मेट्रोयानानि सन्ति, द्रुतरेलयानस्य परीक्षणमपि अधुना एव कृतम् अस्ति । उत्तरप्रदेशे भूपरिवेष्टितराज्यस्य समस्या अपि समाप्ता अस्ति । अत्र देशस्य प्रथमः जलमार्गः वाराणसीतः हल्दियापर्यन्तं आरब्धः अस्ति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button