संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
गुजरात
Trending

शब्दशालाकार्यशालायाः उद्घाटनं श्रीसोमनाथसंस्कृतविश्व-विद्यालये अनुष्ठितम्

गुजरात। श्रीसोमनाथसंस्कृतविश्वविद्यालयः (वेरावलम्) भारतीयभाषासमितिः (शिक्षामन्त्रालयः, भारतसर्वकारः) चेत्येतयोः संयुक्ततत्त्वावधाने शब्दशाला इत्याख्यायाः कार्यशालायाः उद्घाटनसत्रं विश्वविद्यालयस्य परिसरे शैक्षणिकभवनस्य सभाखण्डे अनुष्ठितम्। अस्य सत्रस्य आध्यक्ष्यं निरूढवन्तः विश्वविद्यालयस्य कार्यकारिणः कुलपतयः डॉ॰ ललितकुमारपटेलवर्याः आमन्त्रकाः कुलसचिवाः डॉ॰ दशरथजादवमहोदयाश्च उपस्थिताः आसन्। आभासीयमाध्यमेन मुख्यातिथयः कुलपतिचराः प्रो॰ गोपबन्धुमिश्रमहोदयाः, विशिष्टातिथयः डॉ॰ एच्॰आर्॰विश्वासमहाभागाः, भारतीयभाषासमितेः शैक्षिकसमन्वयकाः डॉ॰ चन्दनश्रीवास्तववर्याश्च कार्यक्रमेऽस्मिन् सहभागितां गृहीतवन्तः। संयोजकाः प्रो॰ विनोदकुमारझावर्याः, सत्रवक्तारः डॉ॰ योगेशपण्ड्यामहोदयाः, श्रीउमामहेश्वरवर्याश्च मञ्चारूढाः आसन्। अस्य कार्यक्रमस्यारम्भः दीपज्वालनेन मन्त्रोद्धोषैश्च सञ्जातः। ततः अभ्यागतानां सभासदां स्वागतं कार्यशालायाः आमुखञ्च संयोजकाः प्रो॰ विनोदकुमारझावर्याः प्रास्ताविषुः। तदनु मञ्चस्थानां पुष्पगुच्छेन स्वागतमभूत्। ततः विशिष्टातिथीनां डॉ॰ एच्॰आर्॰विश्वासमहोदयानाम् उद्बोधनम् अभवत्। एतैः भारतीयभाषाणां संस्कृतस्य च प्रचारस्य संरक्षणस्य चोपायाः उद्बोधिताः।
तत्पश्चात् मुख्यातिथिभिः प्रो॰ गोपबन्धुश्रमहोदयैः भारतीयभाषासु संस्कृतस्य व्यापकप्रभावः विवर्णितः। तदनन्तरं भारतीयभाषासमितेः शैक्षिकसमन्वयकाः डॉ॰ चन्दनश्रीवास्तवमहोदयाः भारतीयभाषासमितेः कार्याणि एवञ्च कार्यशालायोजनायाः परिचयं दत्तवन्तः। एतेषां व्याख्यानात्परं कुलपतिवर्याणाम् आध्यक्ष्योद्बोधनं सञ्जातम्। एतैः शब्दशालायाः आधुनिकयुगे प्रासङ्गिकत्वम् उपस्थापितम्। अन्ते च साहित्यविभागस्य सहायकाचार्याः डॉ॰ डी॰एम॰मोकरियामहोदयाः सभायाम् समुपस्थितेभ्यः धन्यवादं निवेदितवन्तः। कल्याणमन्त्रेण अस्य उद्घाटनसत्रस्य समापनं सञ्जातम्। अस्य कार्यक्रमस्य सञ्चालनं कार्यशालायाः संयोजिकया डॉ॰ विदुषीबोल्लावर्यया अकारि। अस्मिन् कार्यक्रमे विश्वविद्यालयस्य सर्वे आचार्याः छात्राः प्रतिभागिनश्च समवेताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button