संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

योगेक्षेत्रे उत्कृष्टप्रदर्शने राकेशकण्डवाल: शिक्षकदिवसे सम्मानित:

कोटद्वार।व्यायामशिक्षक: संस्कृतशिक्षकश्च राजकीयवरिष्ठमाध्यमिकविद्यालकाण्डखालस्य योगशिक्षक: श्री राकेशकण्डवाल: वीरचन्द्रसिंहगढ़वाली-उत्थान-सेवासमितिद्वारा शिक्षकदिवसे सम्मानितोभवत्। डॉ. सर्वेपल्लीराधाकृष्णनवर्यस्य जन्मदिवसावसरे कोटद्वारे मालवीयोद्याने उत्कृष्टशिक्षका: सम्मानिता: अभवन् । अस्मिन् अवसरे एषः सम्मानः कण्डवालमहोदयाय योगक्षेत्रे उत्कृष्टकार्याय प्रदत्तं
यः आचार्यः कण्डवाल: जनपद-राज्य-राष्ट्रीय-स्तरस्य छात्रैः योगक्षेत्रे प्रसिद्धोवर्तत् ।

ज्ञातव्यं यत् श्रीकण्डवालः काण्डखालस्य राजकीयवरिष्ठविद्यालये बहुवर्षेभ्यः छात्रेभ्यः संस्कृतस्य अपि च योगस्य पाठनं कुर्वन् अस्ति । तस्य योग-प्रदर्शने तस्य छात्राः जिला-स्तरस्य, राज्य-स्तरस्य, राष्ट्रिय-स्तरस्य च अनेकाः स्पर्धासु विजयं प्राप्तवन्तः । सः निरन्तरं प्रातः सायं च अनेकेषां छात्राणां कृते ऑनलाइन-अफलाइन-रूपेण च योगं शिक्षयति, कोटद्वार-नगरे अपि लघुबालानां कृते योगकार्यक्रमः टेक्नो मान-संस्थायाः चालितः अस्ति, यस्य निर्देशनं कन्डवालवर्य: करोति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button