संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

UPYOGI (उपयोगी) –अर्थसङ्कल्पपत्रम्–2023-24

योगिसर्वकारेण प्रस्तुतं बृहत्तमम् अर्थसङ्कल्पपत्रम्

• युवा–महिला–निर्धन–दिव्याङ्ग–कृषकः योगिना अर्थसङ्कल्पपत्रे स्थापितं प्रत्येकस्य ध्यानम्

• योगीसर्वकारेण प्रस्तुतं क्रमशः षष्ठम् अपि च द्वितीयकार्यकालस्य द्वितीयम् अर्थसङ्कल्पपत्रम्*

• 6.90लक्षकोटिरूप्यकाणाम् अर्थसङ्कल्पपत्रं प्रस्तुतम्, उत्तरप्रदेशस्य इतिहासस्य अस्ति बृहत्तमम् अर्थसङ्कल्पपत्रम्*

• प्रदेशस्य जनानां समृद्ध्या प्रगत्या चेत्यादिभ्याः सह एककोटि-अर्थव्यवस्थायाः दृश्यते स्म दृष्टिः

• प्रत्येकं वर्गे समुदाये च दत्तं ध्यानम्, आधारभूतसंरचनायाः विकासस्य कृते च दत्तं विशेषं ध्यानम्*

लखनऊ।

-> अस्माभिः तु समुद्रस्य मार्गं परिवर्तितम्
-> मोदिना योगिना चिन्तनपद्धतिः परिवर्तिता
-> भवन्तः वदन्ति स्म किमपि न भविष्यति
-> अस्माभिः भवताम् अपि चिन्तनपद्धतिः परिवर्तिता

वित्तमन्त्रिणा सुरेशखन्नाद्वारा एताभिः पङ्क्तिभिः स्वस्य अर्थसङ्कल्पभाषणस्य समापनं कृतं, सम्पूर्णं सभागारं करताडनेन गुञ्जायमानम् अभवत् । यथा अपेक्षितम् आसीत्, योगिनः अर्थसङ्कल्पपत्रं तथैव अभवत् । अर्थसङ्कल्पपत्रे प्रदेशस्य जनानां समृद्ध्या तस्याः प्रगत्या चेत्यादिभ्यां सहैव प्रदेशं आगामिषु वर्षेषु एकखरब–अर्थव्यवस्थां कर्तुं लक्ष्यस्य सम्पूर्णं मार्गचित्रम् अर्थसङ्कल्पपत्रे दृष्टम् । युवा–महिला–निर्धन–वृद्ध–दिव्याङ्ग–कृषक–चेत्यादिभिः सह मुख्यमन्त्रिणा योगिना अर्थसङ्कल्पे प्रत्येकं वर्गस्य, समुदायस्य च अवधानं स्थापितम् तत्रैव प्रदेशे वैश्विकशिखरसम्मेलनं–23 इत्यस्य अन्तर्गतं विशालं निवेशम् उद्दिश्य उत्तमायां आधारभूतसंरचनायां उत्तमे विकासे च विशेषम् अवधानं दत्तम् । एतत् अर्थसङ्कल्पपत्रम् अन्येषु अपि अनेकेषु विषयेषु ऐतिहासिकम् आसीत् । एतत् योगीसर्वकारस्य क्रमशः षष्ठं अर्थसङ्कल्पपत्रम् आसीत्, द्वितीयकार्यकालस्य अमृतकालस्य च द्वितीयम् अर्थसङ्कल्पपत्रम् अपि आसीत् । तत्रैव एतत् प्रदेशस्य इतिहासे बृहत्तमम् अर्थसङ्कल्पपत्रम् अपि आसीत् । प्रस्तुतस्य अर्थसङ्कल्पस्य विस्तारः 6,90,242.43कोटिरूप्यकाणि अस्ति । राज्यसर्वकारस्य गतवर्षस्य वास्तविकम् अर्थसङ्कल्पं 6.15लक्षकोटिरूप्यकाणाम् अपि च अनुपूरकम् अर्थसङ्कल्पपत्रं 33,769कोटिरूप्यकाणाम् आसीत् ।

“कृषकाणां स्थापितम् अवधानम्”

सर्वदा इव अस्मिन् समये अपि कृषकेभ्यः अस्मिन् अर्थसङ्कल्पे विशेषं ध्यानं दत्तम् । तेषां रुचिभिः सह तस्य शिक्षायाः विषये अपि ध्यानं आसीत् । अर्थसङ्कल्पघोषणानुसारं द–मिलियन–फार्मर्स–विद्यालयस्य कृते कृषकपाठशालानाम् आयोजनं करिष्यते । स्थायीकृषेः राष्ट्रियाभियानयोजनायाः कृते एकत्रिंशत्यधिकाष्टशतकोटिः त्रिनवतिलक्षरूप्यकाणि व्ययितानि भविष्यन्ति । एतेन सह प्राकृतिककृषेः राष्ट्रियाभियानयोजनायाः विषये त्रयोदशाधिकैकशतकोटिः द्विपञ्चाशतलक्षरूप्यकाणां प्रावधानं कृतम् अस्ति। कृषकाणां कृते निजनलकूपेषु अवहारमूल्ये विद्युतापूर्तिः निमित्तं पञ्चाशतोत्तरनवशताधिकैकसहस्रकोटिरूप्यकाणि स्वीकृतानि सन्ति । राष्ट्रियकृषिविकासयोजनायै चतुराशीत्यधिकनवशतकोटिः चतुर्पञ्चाशतलक्षरूप्यकाणां व्ययस्य घोषणा कृता अस्ति । एतदेव न, राष्ट्रियसस्यबीमायाः कृते त्रिपञ्चाशताधिकसप्तशतकोटिः सप्ततिलक्षरूप्यकाणि, उत्तरप्रदशेमिलेट्स्–इत्यस्मिन् पुनरुत्थानकार्यक्रमे पञ्चपञ्चाशतकोटिः षष्टिलक्षरूप्यकाणि व्ययितानि भविष्यन्ति । राज्यस्य चतुर्षु कृषिविश्वविद्यालयेषु एग्रीटेक्–स्टार्टअप–योजनायाः कृते विंशतिकोटिरूप्यकाणां व्यवस्था अपि अनुमोदिता अस्ति। एतेन सह महात्माबुद्धकृषि-प्रौद्योगिकी-विश्वविद्यालयस्य आरम्भः कुशीनगरे पञ्चाशतकोटिरूप्यकैः भविष्यति ।

“महिलानां वर्धितं सम्माननम्”

मुख्यमन्त्रिणः योगिनः अर्थसङ्कल्पे महिलानाम् अपि सम्माननं वर्धितम् । अस्यान्तर्गतं मुख्यमन्त्रीकन्यासुमगलायोजनायाः अन्तर्गतं वित्तीयवर्षे 2023-24–कृते पञ्चाशताधिकैकसहस्रकोटिरूप्यकाणां प्रावधानं प्रस्तावितं तु मुख्यमन्त्रीसामूहिकविवाहयोजनायां षड्शतकोटिरूप्यकाणां व्ययः भविष्यति । महिलासामर्थ्ययोजनायां त्रयाशीतिकोटिरूप्यकाणि तु निराश्रितविधवानां भरणपोषणाय च द्वात्रिंशत्यधिकचतुर्सहस्रकोटिरूप्यकाणि व्ययं करिष्यति । प्रदेशे कानूनव्यवस्थां शान्तिव्यवस्थां च उद्दिश्य महिलानां अधिकतमसहभागितायाः कृते त्रयाणां महिलाप्रादेशिकसशस्त्र–आरक्षिदलवाहिनिनां निर्माणं क्रियते ।

“युवानः प्राप्स्यन्ति सफलता”

मुख्यमन्त्रिणः योगिनः अर्थसङ्कल्पे युवानां कृते बहवः उपहाराः प्रदत्ताः सन्ति । स्वामीविवेकानन्दयुवासशक्तिकरणयोजनायाः अन्तर्गतं पात्रछात्रेभ्यः टैबलेट–स्मार्टफोन–इति प्रदातुं षड्शताधिकत्रिसहस्रकोटिरुप्यकाणि व्ययः भविष्यन्ति । सूचनाप्रौद्योगिकी-स्टार्टअप-नीतेः कृते षष्टिकोटिरूप्यकाणां व्यवस्था कृता अस्ति । सर्वकारेण वस्त्रोद्योगाय चत्वारिंशतसहस्राः वृत्त्याः सृजितुं लक्ष्यं निर्धारितम् अस्ति । कौशलविकासाभियानस्य अन्तर्गतं प्रशिक्षणकार्यक्रमाय पञ्चाशताधिकैशशतकोटिरूप्यकाणां व्यवस्था कृता अस्ति । मुख्यमन्त्रीशिक्षुताप्रशिक्षणयोजनायाः कृते सप्ततिकोटिरूप्यकाणां प्रावधानम् अस्ति । एकत्रिंशतसहस्राणां यूनां प्रशिक्षणस्य लक्ष्यं निर्धारितम् अस्ति। स्टार्टअप-संस्थानां कृते इन्क्यूबेटरयन्त्रस्य वर्धनं, बीजकोषस्य च कृते शतकोटिरूप्यकाणां व्यवस्था कृता अस्ति । ग्रामीणक्षेत्रेषु युवानां उद्यमिनः कृषिप्रौद्योगिकी स्टार्ट–अपस्थापनार्थं कृषित्वरककोषाय विंशतिकोटिरूप्यकाणि प्रस्तावितानि सन्ति । युवा–अधिवक्तृणां कार्यस्य प्रथमत्रिवर्षाणां पुस्तकस्य पत्रिकायाः च क्रयणाय दशकोटिरुप्यकाणाम् अपि च युवा–अधिवक्तृभ्यः कॉर्पसकोषाय पञ्चकोटिरुप्यकाणां व्यवस्था कृता ।

“वृद्धानां दिव्याङ्गानां च सम्माननम्”

वृद्धाः दिव्याङ्गाः च अपि योगिसर्वकारस्य प्राथमिकतायां सन्ति, तस्य प्रभा अपि अर्थसङ्कल्पे दृष्टुं लब्धा । अर्थसङ्कल्पघोषणायां योगिसर्वकारेण वृद्धावस्था–अनुवृत्तियोजनायाः, कृषक–अनुवृत्तियोजनायाः अन्तर्गतं 7240कोटिरूप्यकाणां प्रावधानं कृतम् अस्ति। अपरपक्षे दिव्याङ्ग–अनुवृत्तियोजनायाः अन्तर्गतं दिव्याङ्गभरणपोषण–अनुदानार्थं 1120कोटिरूप्यकाणां प्रावधानं प्रस्तावितं वर्तते । कुष्ठावस्था–अनुवृत्तियोजनायाः कृते द्विचत्वारिंशतकोटिरूप्यकाणां अर्थसङ्कल्पः प्रदत्तः अस्ति ।

“निर्धनानाम् अपि उत्थानम्”

अन्यपिछड़ावर्गस्य निर्धनजनानाम् पुत्रीणां विवाहे सर्वकारेण पञ्चाशताधिकैकशतकोटिरूप्यकाणां अनुदानं प्रदास्यते । असङ्गठितक्षेत्रस्य कार्यकर्तृणां कृते सञ्चालिता मुख्यमन्त्रीजन–आरोग्ययोजनायाः कृते शतकोटिरूप्यकाणां प्रावधानं प्रस्तावितं अस्ति। असङ्गठितक्षेत्रस्य कार्यकर्तृणां कृते सञ्चालिता मुख्यमन्त्रीदुर्घटनाबीमायोजनायाः कृते द्वादशकोटिरूप्यकाणांम् अर्थसङ्कल्पः प्रदत्तः अस्ति । श्रमिकमृत्युविकलाङ्गसहायतायोजनायाः अन्तर्गतं कार्यस्थले श्रमिकस्य मृत्योः सति पञ्चलक्षरूप्यकाणि, स्थायीविकलाङ्गतायां सति चतुर्लक्षरूप्यकाणि, आंशिकविकलाङ्गतायां सति त्रिलक्षरूप्यकाणि च सहायताप्रदानस्य प्रावधानं वर्तते ।

“अर्थसङ्कल्पपत्रस्य प्रमुखबिन्दवः”

◆ प्रदेशे एकजनपदः एकोत्पादः अपि च हस्तशिल्पोत्पादानाम् विपणनं प्रोत्साहयितुं यूनिटीमॉल–इत्यस्य स्थापना भविष्यति यस्मिन् द्विशतकोटिरूप्यकाणि व्ययितानि भविष्यन्ति ।

◆ मुख्यमन्त्रीनगरविस्तारीकरणयोजना नूतननगरप्रोत्साहनयोजना चेत्यनयोः कृते त्रिसहस्रकोटिरूप्यकाणां प्रावधानं प्रस्तावितं वर्तते ।

◆ प्रधानमन्त्री–आवास–योजनाया (ग्रामीण–इत्यस्य) अन्तर्गतं 2023-2024 इत्यस्मिन् 12,39,877 गृहाणां लक्ष्यं प्रस्तावितं अस्ति । योजनायाः कृते नवसहस्रकोटिरूप्यकाणां अर्थसङ्कल्पव्यवस्था दत्ता अस्ति ।

◆ आगामिषु वर्षेषु उत्तप्रदेशे पञ्च अन्ताराष्ट्रियविमानपत्तकानि अपि च षोडश आन्तरिकविमानपत्तकानि चेत्यादिभिः सह आहत्य एकविंशतिः विमानपत्तकानि क्रियाशीलानि भविष्यन्ति ।

◆ महाकुम्भमेलापकं-2025 इत्यस्य सज्जतायै पञ्चविंशतिशतकोटिरुप्यकाणां व्यवस्था प्रस्ताविता अस्ति ।

◆ आकाङ्क्षीनागरयोजनायै शतकोटिरुप्यकाणां प्रावधानं कृतम् ।

◆ मुख्यमन्त्री–आवासयोजनायाः अन्तर्गतं 1203कोटिरुप्यकाणि प्रस्तावितानि ।

◆ केन्द्रसर्वकारस्य सहयोगेन प्रधानमन्त्री श्री (प्रधानमन्त्री–स्कूल–फॉर–राइजिङ्ग–इण्डिया) इति नामकी नूतनयोजनायै दशाधिकपञ्चशतकोटिरुप्यकाणां प्रावधानम्

◆ ग्रामपञ्चायतस्तरे उपनगरीयस्तरे च आधुनिकपुस्तकालयस्य स्थापना कृता नूतनयोजनायै त्रिशतकोटिरुप्यकाणि ।

◆ खेलो–इण्डिया–विश्वविद्यालयक्रीडायाः कृते त्रिंशतकोटिरूप्यकाणां व्यवस्था ।

◆ मेरठजनपदे मेजरध्यानचन्दक्रीडाविश्वविद्यालयस्य स्थापनायै त्रिशतकोटिरुप्यकाणि ।

◆ चतुर्दशनवचिकित्सामहाविद्यालयानाम् स्थापनायै सञ्चालनाय च 2491कोटिः 39लक्षरूप्यकाणाम् अर्थसङ्कल्पः ।

“मुख्यमन्त्रिणः कथनम्”

स्वातन्त्र्यस्य अमृतकालस्य प्रथमवर्षे प्रस्तुतं ‘नूतनस्य उत्तरप्रदेशस्य’ अर्थसङ्कल्पं प्रदेशस्य सामाजिक-आर्थिक-सांस्कृतिक-विकासस्य च इतिहासे नवीन-सुवर्ण-अध्यायान् योजयिष्यति । प्रधानमन्त्रिणः दृष्ट्यानुसारं एतत् अर्थसङ्कल्पं प्रदेशस्य ग्रामाः, निर्धनाः, कृषकाः, युवानः, महिलाः च समाविष्टाः समाजस्य प्रत्येकस्य वर्गस्य हितं पूरयितुं गच्छति ।

“योगी आदित्यनाथः, मुख्यमन्त्री उत्तरप्रदेशः”

“अर्थसङ्कल्पपत्रम् एकदृष्टौ”

◆ अर्थसङ्कल्पपत्रस्य विस्तारः – 6,90,242.43कोटिरुप्यकाणि

◆ नूतनयोजनासु व्ययः – 32,721.96कोटिरुप्यकाणि

◆ आहत्यप्राप्त्यः – 6,83,292.74कोटिरुप्यकाणि

◆ राजस्वप्राप्त्यः – 5,70,865.66कोटिरुप्यकाणि

◆ पूञ्जीगतप्राप्त्यः – 1,12,427.08कोटिरुप्यकाणि

◆ ऋणराजस्वः – 4,45,871.59कोटिरुप्यकाणि

◆ प्रादेशिकऋणराजस्वः – 2,62,634कोटिरुप्यकाणि

◆ केन्द्रियऋणेषु राज्यस्य भागः – 1,83,237.59कोटिरुप्यकाणि

◆ आहत्यव्ययः (अनुमानितः)– 6,90,242.43कोटिरुप्यकाणि

◆ राजस्वलाभः – 68,511.65कोटिरुप्यकाणि

◆ राजकोषीयहानिः – 84,883.16कोटिरुप्यकाणि

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button