संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

हनुमज्जन्मोत्सवे राज्यपालवर्येण राज्यस्य जनसमृद्धे: सुखदकामना कृता

उत्तराखण्ड। गुरुवासरे हरिद्वारस्थिते अवधूतमण्डलाश्रमे श्री हनुमानजन्मोत्सवकार्यक्रमोभवत् यत्र महामहिम राज्यपाल: लेफ्टिनेंट-जनरल-गुरमीतसिंह: मुख्यातिथिरूपेण सम्बोधितवान् । महामहिम्ना देवलोकमन्दिरे संकटमोचनाय श्रीहनुमते प्रार्थनां कुर्वन् राज्यस्य जनसुखस्य, समृद्धे:, सुखदकामना कृता। तै: श्रीदेवलोकमन्दिरे भगवानश्रीगणेशभगवानश्रीकुबेरादिदेवप्रतिममाया: स्थापनं एवं अनावरण कृतवान्।
श्रीहनुमानजन्मोत्सवस्य अवसरे कार्यक्रमे उपस्थितजनानाम् अभिनन्द्य शुभकामनाभिः सह राज्यपाल: उक्तवान् यत् श्री हनुमान् सर्वाधिकसुलभः प्रियः लोकदेवः अस्ति। भक्तानां कामना कर्ता क्लेशकर्त्ता च अस्ति | श्री हनुमान् बलस्य, प्रज्ञायाः, विद्याया:, ज्ञानस्य, गुणस्य च सागरः अस्ति, अस्माभिः तस्य आदर्शेभ्यः अपि च तस्य पराक्रमात् अपि शिक्षणस्य आवश्यकता अस्ति।
राज्यपालः अवदत् यत् हरिद्वारस्थं हनुमत: दिव्यं मन्दिरं सर्वेषां कृते पवित्रकेन्द्रं, श्रद्धाकेन्द्रं, आस्थाकेन्द्रं च जातम् । तेन उक्तं यत् हनुमान्मन्दिरस्य अभिषेकः बाबाश्री हीरादास इत्यनेन कृतः ततः परं भक्ताः सच्चिदानन्दश्रद्धाभक्त्या च अत्र आगच्छन्ति। महामंडलेश्वरस्वामीसन्तोषानन्द: श्री हिरादासस्य सेवाकार्यं, आध्यात्मिकार्यं अभ्यासकार्यं एवं दानकार्यं अग्रे वर्धयति । राज्यपालः तस्य सेवाकार्यस्य, दानस्य च प्रशंसाम् अकरोत् ।
राज्यपालः अवदत् यत् उत्तराखण्डं देवभूमिः अस्ति। एतत् हरिद्वार-नगरं कुम्भनगरी दक्ष-प्रजापते: राजधानी शिवनगरी च अस्ति । हरिद्वारं परं पवित्रं च तीर्थयात्राक्षेत्रम् अस्ति। महाकुम्भे वा काँवड्यात्रायां वा आभारतात् विदेशात् च असंख्यभक्ताः स्वश्रद्धया अत्र आगच्छन्ति। अत्र पुण्यभूमे: प्रत्येकं कणं दिव्यं पवित्रं च वरृतते । अस्माकं सर्वेषां कृते सौभाग्यं यत् अस्माकम् अत्र एतादृशाः तीर्थाः सन्ति। तेन उक्तं यत् परमपवित्रे आध्यात्मिकनगरे श्रीहनुमत: ध्यानकेन्द्रे सन्तानां मध्ये सः अतीव प्रसन्नः अस्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button