संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
कण्वनगरीकोटद्वार

नवप्रधानाचार्यस्य मनोजकुकरेतीवर्यस्य स्वागतम् आचार्यै: समृतिचिह्नेन विहितम्

कोटद्वार। रितेशशर्मासरस्वतीविद्यामंदिरे जानकीनगरे नवप्रधानाचार्य: मनोजकुकरेतीवर्य: प्रभारकार्यमधिगृहीतवान् । विद्यालयस्य मीडियाप्रभारी रोहितबालोदी इत्यनेन उक्तं यत् विद्याभारतीद्वारा अखिलभारतीयशिक्षासंस्थायाः चालिते सरस्वतीशिशु-विद्यामन्दिरयोः स्थानान्तरणस्य प्रक्रिया योजनानुसारं प्रचलति। अस्मिन् क्रमे मनोजकुकरेतीमहोदयस्य स्थानान्तरणं विद्यामन्दिरजानकीनगरे अभवत् ।
इत: पूर्वम् कुकरेतीवर्य: विद्यामन्दिरश्रीकोटगंगनाली इत्यत्र कार्यरत: आसीत् । अद्य आगत्य सर्वप्रथमं नूतनः प्रधानाचार्यः वन्दनासत्रे छात्रैः सह संवादं कृतवान्, तदनन्तरं प्रधानाचार्यस्य कृते आचार्या: स्मृतिचिह्नं प्रदत्त्वा स्वागतं कृतवन्त: । अवसरेस्मिन् प्रबन्धक: श्री राजेन्द्रजखमोला, शिशुमंदिरस्य प्राचार्य: प्रदीपनौटियाल: आचार्या: आदय: उपस्थिता: आहन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button