संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

संस्कृतं मानवतायाः पाठं पाठयति – डॉ.अरविन्दकुमारतिवारी

वार्ताहर:-सचिनशर्मा।मोदीनगर।गाजियाबाद।उत्तरप्रदेशसंस्कृतसंस्थानेन संचालितस्य २० दिवसीयस्य ऑनलाइनसंस्कृतसम्भाषणवर्गस्य बौद्धिकसत्रस्य आयोजनं नवम्बरमासस्य १६ दिनाङ्के अभवत् । बौद्धिकसत्रस्य सञ्चालनं उत्तरप्रदेशसंस्कृतसंस्थानस्य प्रशिक्षकः सचिनशर्मामहोदयेन कृतम् ।बौद्धिकसत्रस्य आरम्भः प्रशिक्षु-हार्दिकमहोदयस्य मंगलाचरणेन अभवत् । तदनन्तरं रिंकी पाण्डेयद्वारा सरस्वती वन्दना, संस्थानगीतिका दिव्यांशीसिंहद्वारा ,अतिथिनां स्वागतार्थं खुशीशर्मा स्वागतगीतं गीतवती। प्रशिक्षकः ओमदत्तद्विवेदी अतिथिनां स्वागतभाषणं संस्थानस्य वृत्तकथनं च कृतवान्। स्मृतिरंजन: विवेकविकास: च अनुभवकथनं उक्तवान् । प्राञ्जल लघुनाटिकां कृतवती, रिया चौरसिया संस्कृतेन गीतं गीतवती । कार्यक्रमस्य मुख्यातिथिः अरविन्दकुमारतिवारीमहोदयः संस्कृतस्य महत्त्वे प्रकाशं क्षिपन् संस्कृतेन कर्तव्यबोधः भवति इति उक्तवान्।धर्मस्य व्याख्यानकाले सः अवदत् यत् मानवधर्मः मानवसेवा च शतयज्ञेभ्यः अधिका अस्ति। संस्कृतम् अस्मान् वसुधैव कुटुम्बकम् इति पाठं पाठयति, सः अवदत् यत् संस्कृतं नीतिम् अनुशासनं च उपदिशति, अनुशासनेन विना कोऽपि कार्यं कुत्रापि कर्तुं न शक्यते। प्रकृतिः अपि अनुशासनम् अनुसरति, सूर्यः अपि समयेन उदेति, समयेन अस्त: च अपि भवति, अतः प्रत्येकै: मानवै: अनुशासनस्य अनुसरणं कर्तव्यम् । अस्मिन् अवसरे उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः विनयश्रीवास्तवमहोदयः शिक्षकान् छात्रान् च प्रोत्साहयन् अवदत् यत् उत्तरप्रदेशसंस्कृतसंस्थानं प्रतिक्षणं संस्कृतसेवायै कार्यं करिष्यति। प्रशिक्षणप्रमुख: सुधिष्ठकुमारमिश्रवर्य: अपि सर्वान् प्रेरितवान्। डा.चन्द्रकला शाक्या, समन्वयक श्री धीरज मैठाणी, सुश्री राधा शर्मा , श्री दिव्यरंजन: इत्यादयः अधिकारिणः एते सर्वेSपि कार्यक्रमेस्मिन् उपस्थिता: आसन् । भारतस्य विभिन्नराज्येभ्यः शताधिकाः छात्राः भागं गृहीतवन्तः ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button