संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

रोशनबलूनिकवे: “छंदप्रसून”-काव्यसंग्रहस्य जातं भव्यलोकार्पणं

माननीय: राज्यपाल: कोश्यारी सम्प्राप्त: शिक्षकाणां राष्ट्रीयशैक्षिक-एवं-सांस्कृतिकमहोत्सवे

नैनीतालं। त्रिदिवसीय: “शिक्षकाणां राष्ट्रीयशैक्षिक: एवं सांस्कृतिकमहोत्सव:” पार्वतीप्रेमाजगातीसरस्वतीविहारे नैनीताले प्रारभत्। यत्र काव्यनिशासत्रे scert इत्यत: पूर्वनिदेशक: डा.गिरीशचन्द्रजोशी, प्रसिद्धरंगकर्मी डा0डी0एन0भट्ट:, डा0प्रद्युम्नभल्ला, प्रसिद्ध: नाट्यनिर्देशक: डा0श्रीशडोभाल: समुपस्थिता: अभवन् । काव्यपाठात् पूर्वं अ0उ0रा0इ0का0नौगांवखालविद्यालयस्य हिन्दीप्रवक्ता रोशनबलूनी इत्यस्य चतुर्थपुस्तकस्य “छन्द-प्रसून” इत्यस्य भव्यलोकार्पणं सञ्जातं । काव्यपाठे बलूनीवर्यस्य ‘मेरा गांव’ इत्यपि प्रशंसनी: जात:।

अवसरेस्मिन् प्रसिद्धसंगीतशिक्षक: व हिन्दीसाहित्यभारती-उत्तराखंडस्य महामंत्री श्री दिनेशचन्द्रपाठक:, श्री मुकेशबहुगुणा, शैलनटस्य अध्यक्ष: श्री राजीवशर्मा, डा०प्रकाशचमोली, नंदनराणा नवल:, चित्रापाठक:, शिवांगीपाठक:, मुशबीरगिलानी, डा०राजेन्द्र-उपाध्याय: , हर्षिता जोशी, आरती रावतपुंडीर:, सरोजडिमरी आदिभिस्सह २३ राज्यानां 450 शिक्षका: रंगकर्मिण:, सांस्कृतिककर्मिण: , पत्रकारबान्धवा: महोत्सवे उपस्थिता: आसन् ।

शुभावसरेस्मिन् महाराष्ट्रस्य पूर्वराज्यपाल: एवं पूर्वमुख्यमंत्री-उत्तराखण्डस्य , श्रद्धेयभगतसिंहकोश्यारी रोशनबलूनीद्वारा स्वपुस्तकेन “छन्द-प्रसून” -उपहारेण समलंकृतं ।महोत्सवस्य प्रथमदिवसे रात्रौ एव काव्यपाठ: सञ्जात: , यत्र देशस्य 20 कवीनां कवितापाठ: गुञ्जितोभवत्। दूनविश्वविद्यालयत: प्रो. प्रसिद्धरंगकर्मिण: डा.राकेशभट्टवर्यस्य निर्देशने “नंदाराजजातयात्रा” इत्यस्यापि नाट्यमंचनं सञ्जातं।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button