संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

भारतविकासपरिषद्-कोटद्वारेण सामूहिकपरिणय: सम्पादित:


कोटद्वारं।भारतविकासपरिषद्कोटद्वारद्वारा रविवासरे पुण्यतमं कार्यं कृतं । सर्वे जानन्ति यत् कन्यादाने परोपकारयुक्तं कार्यं मंगलदानभावनया जना: कुर्वन्ति एव । अवसरेस्मिन् परिषद्द्वारा बहुबालिकानां सामूहिकपरिणय: सम्पादित: ।
आर्थिकसहयोगेन एतादृश: विवाह: सुसम्पन्न: भवति । आधुनिकपरिवेशे सामाजिकसंस्था: अग्रे आगत्य जनहिताय यथा कार्यं कुर्वन्ति तथैव जनहिताय भारतविकासपरिषद्- कण्वनगरीकोटद्वारद्वारा बहुबालिकानां सामूहिकपरिणय: पूर्ण: कृत: । समाजं प्रेरयितुं संस्थाद्वारा 6 कन्याविवाहस्य पुण्यकार्यं कृतं । कोटद्वारस्य देवीमन्दिरमार्गस्थे केप्राइडमालविवाहस्थले अयं विवाहसमारोह: सम्पन्न: जात: । उद्घाटनं वरवधूनां जयमालाद्वारा समारभत् च अग्निवेदिकायां सप्तपदीद्वारा सप्तवचनेन च पण्डितजानकीप्रसादद्विवेदीद्वारा मन्त्रसानिध्ये विवाह: परिपूर्णोभवत् । संस्थाया: कर्मनिष्ठसदस्य: श्रीगोपालबंसलेन विज्ञापितं यत्
आवश्यकतायां सहयोगे संस्थाद्वारा शयनपर्यङ्क: भोजनपात्राणि काष्ठ्योपकरणं वस्त्रं स्वर्णाभूषणानि च मूल्यवस्तूनि प्रदत्तानि ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button