संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश
Trending

जुलैमासात् अटल-आवासीय-विद्यालयेषु आरप्स्यते अध्यापनकार्यम्

लखनऊ । निर्माणश्रमिकानां बालकानां उत्तमशिक्षायै उत्तरप्रदेशस्य योगिसर्वकारः अटल–आवासीयविद्यालयाः आगामिसत्रात् आरभते । शैक्षणिकसत्राय 2023-24–इत्यस्मै विद्यालये बालकानां प्रवेशप्रक्रियायाः समयसीमा निर्धारिता अस्ति ।

अटल–आवासीयविद्यालयानाम् प्रगतिप्रतिवेदनं मुख्यसचिवस्य समक्षं प्रस्तुतम्, तदनुसारं फरवरी–मार्च–मासयोः प्रवेशार्थम् आवेदनं करिष्यते, यद्यपि मे-मासे परीक्षायाः अनन्तरं जूनमासे प्रवेशप्रक्रिया आरप्स्यते । जुलाईमासे अध्यापनस्य अपि आरम्भः भविष्यति । अध्यापकानाम् अन्यकर्मचारिणां च नियुक्तिप्रक्रिया आरब्धा अस्ति । सर्वेषु अष्टादशमण्डलेषु विद्यालयानां निर्माणकार्यं द्रुतगत्या क्रियते ।

“अन्तर्जालद्वारा अपि पूरयितुं शक्ष्यन्ते आवेदनपत्राणि”

नियतसमयानुसारं फरवरीमासस्य पञ्चादशदिनाङ्तः फरवरीमासस्य विंशतिदिनाङ्कपर्यन्तं कदापि आवेदनपत्रं निर्गन्तुं शक्यते । एतन्निमित्तं ऑनलाइन–आवेदनानि अपि याचयितुं शक्यन्ते । मार्चमासस्य विंशतिदिनाङ्कतः पञ्चविंशतिदिनाङ्कपर्यन्तं प्रवेशार्थम् आवेदनं कर्तुं शक्ष्यते । अप्रैलमासस्य अन्तं यावत् प्रवेशपत्राणि अपि निर्गताः भविष्यन्ति । तस्मिन् एव काले मे-मासस्य अन्ते परीक्षायाः आयोजनं भविष्यति, यद्यपि जूनमासस्य मध्यभागे योग्यासूची विमोचिता भविष्यति, परामर्शस्य प्रवेशस्य च अनन्तरं जुलैमासात् शिक्षणकार्यं आरप्स्यते । सर्वेषु अष्टादशमण्डलेषु अटल-आवासीय-विद्यालयाः उद्घाटयितुं योजना अस्ति । प्रत्येकः विद्यालयः षष्ठीकक्षायां अशीतिः बालकैः सह आरप्स्यते । प्रवेशपरीक्षा केन्द्रीयमाध्यमिकशिक्षापरिषदा भविष्यति।

“एकस्य कुटुम्बस्य अधिकतमं द्वै बाले एव पात्राः”

निर्माणश्रमिकानाम् अनाथबालानां च प्रवेशपरीक्षा केन्द्रीयमाध्यमिकशिक्षापरिषदा आयोजयितुं सहमतिपत्रस्य प्रक्रिया प्रचलति । विधिपूर्वकं पञ्जीकृतानाः निर्माणश्रमिकाः ये पञ्जीयनोपरान्तं न्यूनातिन्यूनं एकवर्षं (पञ्चषष्ट्याधिकत्रिशतदिवसाः) परिषदः सदस्यताकालः सम्पन्नः कृतः भवेयुः, तेषां बालाः प्रवेशपरीक्षां दातुं योग्याः भविष्यन्ति । एकस्य निर्माणश्रमिकस्य अधिकतमं द्वे बाले विद्यालये अध्ययनस्य पात्राः भविष्यन्ति । बालकानां आयुः दशवर्षतः द्वादशवर्षाणां मध्ये भवेत् (जवाहरनवोदयविद्यालयस्य आधारे) अनाथबालानां पात्रतायां निर्णयः स्वीकर्तुं प्रस्तावितः अस्ति ।

“शीघ्रं पूर्णा भविष्यति नियुक्तिप्रक्रिया”

अटल–आवासीय–विद्यालयानां प्रथमशैक्षणिकसत्रं 2023-24तमवर्षाद् षष्ठीकक्षा सञ्चालयितुं प्रत्येकस्मिन् विद्यालये एकः प्राचार्यः, एकः प्रशासनिकाधिकारी अपि च एकादशेषु शैक्षणिकपदेषु (अशीतिः बालकैः सह) अध्ययनम् अध्यापनार्थं च कार्यं कर्तुं प्रस्तावितं वर्तते । शिक्षकाणां नियुक्तौ विलम्बे सति तत्क्षणं शिक्षणाधिगमनाय षड् शिक्षकाणां व्यवस्थां कर्तुं शक्यते । शैक्षणिकसत्रस्य 2023-24तमस्य वर्षस्य कृते सर्वेषां विद्यालयानां प्रधानाध्यापकस्य नियुक्तिः 2023तमस्य वर्षस्य फरवरी-मासस्य मध्यभागे, अन्येषां सर्वेषां नियुक्त्यः च 2023तमस्य वर्षस्य मे-मासस्य मध्यभागपर्यन्तं सम्पन्नं कर्तुं प्रस्तावितं अस्ति अटल-आवासीय-विद्यालयेषु प्राचार्यः, प्रशासनिकाधिकारी, शिक्षकः चेत्यादिषु पदेषु स्थायीनियुक्तिप्रक्रिया प्रचलिता अस्ति । अटल–आवासीय–विद्यालयानाम् शैक्षणिकं गैर–शैक्षणिकं च पदानां कृते नियमाः निर्मिताः, यस्य अनुमोदनस्य प्रक्रिया प्रचलति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button